038 तत्कारणमपि यथोक्तधर्मविशिष्टं सिध्येत् । यावता कार्यस्यानित्यत्वानेकत्वधर्मान्वय
दर्शनात्तत्कारणमपि तथैवानुमीयते । नित्यस्य क्रमाक्रमाभ्यामर्थक्रियाविरोधात् । का
रणभेदकृतत्वाच्च कार्यवैचित्र्यस्य । अन्यथा निर्हेतुकत्वप्रसङ्गात् । तस्मान्न नित्यैकरू
पप्रधानसिद्धिः । यदि पुनरनित्यानेकरूप एव कारणं प्रधानमिति संज्ञा क्रियेत, तदा
नास्ति विवाद इति भावः ॥ ४१ ॥


कस्मात्पुनरेकजात्यन्वितं व्यक्तं न भवतीत्याह—अयःशलाकाकल्पा—इत्यादि ।


अयःशलाकाकल्पा हि क्रमसङ्गतमूर्त्तयः ।

दृश्यन्ते व्यक्तयः सर्वाः कल्पनामिश्रितात्मिकाः ॥ ४२ ॥

यथा ह्ययोमय्यः शलाकाः परस्परमसङ्गतास्तद्वदिमाः शब्दादिव्यक्तयः स्वस्वभाव
व्यवस्थिततया देशकालशक्तिप्रतिभासादिभेदान्न परस्परमन्वाविशन्ति । एतेनानेकत्वं
प्रतिपादितम् । अनित्यत्वप्रतिपादनायाह—क्रमसङ्गतमूर्त्तय इति । उत्पादक्रमेण
सङ्गता—समालिङ्गिता मूर्त्तिर्यासामिति विग्रहः । कथं तर्हि (क्षि)त्यादिनैकेन रूपेण
तथा स एवायमिति च स्थिरेण स्वभावेनानुगता व्यवसीयन्ते भावा इत्याह—कल्प
नामिश्रितात्मिका
इति । मिथ्याविकल्पोऽयमर्थेष्वेकात्मताग्रह इत्यर्थः । एतच्च पश्चा
त्प्रतिपादयिष्यते क्षणभङ्गादौ ॥ ४२ ॥


एवं तावत्समन्वयादित्यस्य हेतोरसिद्धविरुद्धानैकान्तिकत्वं प्रतिपादितम्, अधुना
कुटादिभेदवदिति दृष्टान्तस्य साध्यसाधनधर्मानन्वयत्वं प्रतिपादयन्नाह—मृद्वि
कारादय
इत्यादि ।


मृद्विकारादयो भेदा नैकजात्यन्वितास्तथा ।

सिद्धा नैकनिमित्ताश्च मृत्पिण्डादेर्विभेदतः ॥ ४३ ॥

आदिशब्देन कनकादिविकाराणां च ग्रहणम् । तथेति दूषणान्तरसमुच्चये सादृश्ये
वा । नैकजात्यन्विता इत्यनेन साधनधर्मवैकल्यं दर्शितम् । नैकनिमित्ताश्चेति ।
सिद्धा इति प्रकृतेन सम्बन्धः । अनेन साध्यधर्मानन्वयो दर्शितः । ननु चैकं मृत्पिण्ड
कनकादि कारणं तेषां सिद्धमेव, तथा मृत्सुवर्णत्वादिजातिश्चैषामेषाऽनुगामिनी दृष्टा,
तत्कथमुभयवैकल्यमित्याह—मृत्पिण्डादेर्विभेदत इति । नह्येकोऽवयवी मृत्पिण्डा
दिरस्ति, एकदेशावृतौ सर्वावरणप्रसङ्गात् । नाप्येका जातिः प्रतिव्यक्ति प्रतिभासभे
दात् ॥ ४३ ॥