एवं तावत्समन्वयादित्यस्य हेतोरसिद्धविरुद्धानैकान्तिकत्वं प्रतिपादितम्, अधुना
कुटादिभेदवदिति दृष्टान्तस्य साध्यसाधनधर्मानन्वयत्वं प्रतिपादयन्नाह—मृद्वि
कारादय
इत्यादि ।


मृद्विकारादयो भेदा नैकजात्यन्वितास्तथा ।

सिद्धा नैकनिमित्ताश्च मृत्पिण्डादेर्विभेदतः ॥ ४३ ॥

आदिशब्देन कनकादिविकाराणां च ग्रहणम् । तथेति दूषणान्तरसमुच्चये सादृश्ये
वा । नैकजात्यन्विता इत्यनेन साधनधर्मवैकल्यं दर्शितम् । नैकनिमित्ताश्चेति ।
सिद्धा इति प्रकृतेन सम्बन्धः । अनेन साध्यधर्मानन्वयो दर्शितः । ननु चैकं मृत्पिण्ड
कनकादि कारणं तेषां सिद्धमेव, तथा मृत्सुवर्णत्वादिजातिश्चैषामेषाऽनुगामिनी दृष्टा,
तत्कथमुभयवैकल्यमित्याह—मृत्पिण्डादेर्विभेदत इति । नह्येकोऽवयवी मृत्पिण्डा
दिरस्ति, एकदेशावृतौ सर्वावरणप्रसङ्गात् । नाप्येका जातिः प्रतिव्यक्ति प्रतिभासभे
दात् ॥ ४३ ॥


039