039

पु29a नरपि समन्वयादित्यस्य हेतोः स्वतोऽनैकान्तिकत्वमिति प्रतिपादयन्नाह—चैत
न्ये
त्यादि ।


चैतन्याद्यन्वितत्वेऽपि नैकपूर्वत्वमिष्यते ।

पुरुषाणाममुख्यं चेत्तदिहापि समं न किम् ॥ ४४ ॥

तथाहि—चेतनत्वभोक्तृत्वादिभिरपरिमितैर्धर्मैरन्विताः पुमांसोऽभीष्टाः, न च ते
तथाविधैककारणपूर्वका भवद्भिरिष्यन्ते । अथापि स्याच्चैतन्याद्यन्वितत्वं पुरुषाणां न
मुख्यमिष्टम्, किं तर्हि ? गौणम्, यतोऽचैतन्यादिव्यावृत्ताः सर्व एव पुमांसस्तेना
र्थान्तरव्यावृत्तिरूपा चैतन्यं जातिस्तदनुगामिनी कल्प्यते, नत्वेका तात्विकी साऽ
स्तीति । यद्येवं तदमुख्यम्, सुखाद्यन्वितत्वमसत्यपि तथाभूतैककारणपूर्वत्वे पुरुषव
दिहापि व्यक्ते किमिति समम्—तुल्यं न कल्प्यते । तस्मादनैकान्तिको हेतुः । पुरु
षाणामित्युपलक्षणम् । तथा सुखादयो मूलप्रकृत्यवस्थाभाविनो गुणत्वाचेतनत्वाभो
क्तृत्वादिभिरन्विताः, प्रधानपुरुषाश्च नित्यत्वादिभिर्युक्ताः, न च ते तथाभूतैककार
णपूर्वका इत्यनैकान्तिका एव ॥ ४४ ॥


एवं तावत्समन्वयादित्ययं हेतुः प्रतिषिद्धः । साम्प्रतं निगमनव्याजेन परिशिष्टहेतु
दूषणार्थं दिङ्मात्रमाह—प्रधानहेत्वभावेऽपीत्यादि ।


प्रधानहेत्वभावेऽपि ततः सर्वं प्रकल्पते ।

शक्तेर्भेदेन वैचित्र्यं कार्यकारणतादिकम् ॥ ४५ ॥

तत्र यत्तावदुक्तं परिमाणाच्छक्तितः प्रवृत्तेः कार्यकारणभावाच्चास्ति प्रधानमिति ।
एते त्रयोऽपि हेतवोऽनैकान्तिकाः, साध्यविपर्यये । बाधकप्रमाणानुपदर्शनात् । प्रधा
नाख्यस्य हेतोरभावेऽप्येषां परिमाणादीनामविरोधात् । तथाहि—यदि तावत्कारणमा
त्रस्यास्तित्वं साध्यते, तदा सिद्धसाध्यता, न ह्यस्माकं कारणमन्तरेण कार्यस्योत्पादोऽ
भीष्टः; कारणमात्रस्य च प्रधानमिति संज्ञाकरणे न किंचिद्बाध्यते । अथैवं साध्यते—
अस्ति प्रेक्षावत्कारणम्, यदेतन्नियतपरिमाणं व्यक्तिमुत्पादयति, शक्तितश्च प्रवर्त्तत
इति । तदाऽनैकान्तिकता, विनाऽपि हि प्रेक्षावता कर्त्रास्वहेतुसामर्थ्यप्रतिनियमा
त्प्रतिनियतपरिमाणादियुक्तस्योत्पत्त्यविरोधात् । न चापि प्रधानं प्रेक्षावद्युक्तं तस्याचे
तनत्वात् । प्रेक्षायाश्च चैतन्यप्रर्यायत्वात् । किंच—शक्तितः प्रवृत्तेरित्यनेन यद्यव्य
तिरिक्तशक्तियोगि कारणमात्रं साध्यते, तदा सिद्धसाध्यता । अथ व्यतिरिक्तविचित्र