पु29a नरपि समन्वयादित्यस्य हेतोः स्वतोऽनैकान्तिकत्वमिति प्रतिपादयन्नाह—चैत
न्ये
त्यादि ।


चैतन्याद्यन्वितत्वेऽपि नैकपूर्वत्वमिष्यते ।

पुरुषाणाममुख्यं चेत्तदिहापि समं न किम् ॥ ४४ ॥

तथाहि—चेतनत्वभोक्तृत्वादिभिरपरिमितैर्धर्मैरन्विताः पुमांसोऽभीष्टाः, न च ते
तथाविधैककारणपूर्वका भवद्भिरिष्यन्ते । अथापि स्याच्चैतन्याद्यन्वितत्वं पुरुषाणां न
मुख्यमिष्टम्, किं तर्हि ? गौणम्, यतोऽचैतन्यादिव्यावृत्ताः सर्व एव पुमांसस्तेना
र्थान्तरव्यावृत्तिरूपा चैतन्यं जातिस्तदनुगामिनी कल्प्यते, नत्वेका तात्विकी साऽ
स्तीति । यद्येवं तदमुख्यम्, सुखाद्यन्वितत्वमसत्यपि तथाभूतैककारणपूर्वत्वे पुरुषव
दिहापि व्यक्ते किमिति समम्—तुल्यं न कल्प्यते । तस्मादनैकान्तिको हेतुः । पुरु
षाणामित्युपलक्षणम् । तथा सुखादयो मूलप्रकृत्यवस्थाभाविनो गुणत्वाचेतनत्वाभो
क्तृत्वादिभिरन्विताः, प्रधानपुरुषाश्च नित्यत्वादिभिर्युक्ताः, न च ते तथाभूतैककार
णपूर्वका इत्यनैकान्तिका एव ॥ ४४ ॥