055 किमिति तांस्तथाभूताननुपकारिणः सहकारिणोऽपेक्षेत । किं च येऽपि ते सहाकारिण
स्तेऽपि सर्व एवेश्वरस्यायत्तजन्मतया नित्यं समवहता एवेति कथमसिद्धता हेतोः ।
न चानैकान्तिकता, अविकलकारणत्वहानिप्रसङ्गात्, अविकलकारणस्याप्यनुत्पत्तौ
सर्वदैवानुत्पत्तिप्रसङ्गोऽविशेषात् । उद्योतकरस्त्वाह—यद्यपि नित्यमीश्वराख्यं कार
णमविकलं भावानां संनिहितम् । तथाऽपि न युगपदुत्पत्तिरीश्वरस्य, बुद्धिपूर्वकारि
त्वात् । यदीश्वरसत्तामात्रेणैवाबुद्धिपूर्वं भावानामुत्पादकः स्यात्तदा स्यादेतच्चोद्यम् ।
यदा तु बुद्धिपूर्वकं करोति तदा न दोषः, तस्य स्वेच्छया कार्येषु प्रवृत्तेः । अतोऽनै
कान्तिकतैव हेतोरिति । तदेतदयुक्तम् । न हि कार्याणां कारणस्येच्छाभावाभावापे
क्षया प्रवृत्तिनिवृत्ती भवतः, येनाप्रतिबद्धसामर्थ्येऽपीश्वराख्ये कारणे सदा सन्निहिते
तदीयेच्छाऽभावान्न प्रवर्त्तन्त इति स्यात् । किं तर्हि ? कारणगतसामर्थ्यभावाभावानुवि
धायिनो भावाः । तथाहि—इच्छावतोऽपि कर्तुरसमर्थान्नोत्पद्यन्ते, समर्थाच्च बीजा
देरनिच्छावतोऽपि समुत्पद्यन्ते । तत्र यदीश्वराख्यं कारणं कार्योत्पादकालवदप्रतिहत
शक्ति सदैवावस्थितम्, भावास्तत्किमिति तदीयामनुपकारिणीं तामिच्छामपेक्षन्ते, ये
नोत्पादकालवद्युगपत्त उत्पद्येरन् । एवं हि तैरविकलकारणत्वमात्मनो दर्शितं भवेत्,
यदि युगपद्भवेयुः । न चापीश्वरस्य परैरनुपकार्यस्य काचिदपेक्षाऽस्ति, येनेच्छामपे
क्षेत । अपि च—बुद्धिव्यतिरेकेण नान्येच्छाऽस्ति, बुद्धिश्चेश्वरस्य भवद्भिर्नित्यैकरूपा
ऽभीष्टा, ततश्च बुद्धिपूर्वकारित्वेऽपीश्वरस्य किमिति भावानां युगपदुत्पादो न भवति ।
ईश्वरवत्तद्बुद्धेरपि सदा सन्निहितत्वात् । अथाप्यनित्या तस्य बुद्धिरङ्गीक्रियते, तथा
ऽपीश्वरसत्तामात्रभावित्वात्तस्या ईश्वरवत्सदाभाव एवेति, स एव दोषः । तस्माद्बु
द्धिमत्वादिति विशेषणमकिंचित्करमेवेति नानैकान्तिकता हेतोः । न चापि विरुद्धता
सपक्षे भावात् न चैवं भवति, तस्माद्विपर्ययः । प्रयोगः—यद्यदा न भवति, न
तत्तदानीमविकलकारणम्, यथा कुशूलस्थितबीजावस्थायामनुत्पद्यमानोऽङ्कुरः । न
भवति चैकपदार्थोत्पादकाले सर्वं विश्वमिति, व्यापकानुपलब्धिः । न च सिद्धसा
ध्यता, ईश्वरस्य कारणत्वे सति विकलकारणत्वानुपपत्तेः प्रसाधितत्वात् ॥ ८७ ॥


अपरमपि प्रमाणमाह—ये वा क्रमेणेत्यादि ।


ये वा क्रमेण जायन्ते ते नैवेश्वरहेतुकाः ।

यथोक्तसाधनोद्भूता जडानां प्रत्यया इव ॥ ८८ ॥