056
तेषामपि तदुद्भूतौ विफला साधनाभिधा

नित्यत्वादचिकित्स्यस्य नैव सा सहकारिणी ॥ ८९ ॥

यथोक्तेभ्यः स्वारम्भकावयवसन्निवेशविशिष्टत्वादिभ्यः साधनेभ्य उद्भूता इष्टसा
ध्यधर्मिविषया जडानामीश्वरकारणाभिनिवेशिनां प्रत्ययाः—निश्चया इवेत्यर्थः । ननु
यथोक्तदोषदुष्टत्वान्नैतेभ्य इष्टे साध्ये प्रत्ययाः समुत्पद्यन्त इति न दृष्टान्तधर्मिसिद्धिः ।
सत्यमेतत् । अत एव जडानामित्युक्तम् । जडानां हि साधनाविवेकाक्षमतया साध
नाभासेभ्योऽपि तेषां प्रत्ययाः समुत्पद्यन्त एव । नन्वेवमपि साध्यविकलो दृष्टान्तः,
तेषामपि जडप्रत्ययानामीश्वरस्य निमित्तकारणत्वेनेष्टत्वादित्यत आह—तेषामपी
त्यादि । तेषामपि—जडप्रत्ययानाम, तदुद्भूताविति । ईश्वरादुद्भूताविष्यमाणा
याम्, विफला साधनाभिधा—साधनाभिधानं व्यर्थं स्यात् । ईश्वरादेव तेषामुत्पत्ते
रिति भावः । ननु साधनाभिधां सहकारिणीमपेक्ष्य तेषामीश्वरो जनको भविष्यति
न केवलस्तेनासौ विफला न भविष्यतीत्यत आह—नित्यत्वादित्यादि । यद्यसौ साध
नाभिधा तस्येश्वरस्यासमर्थं स्वभावमपनीय समर्थमादधीत, तदा स्यात्सा तस्य सह
कारिणी, यावता नित्यत्वादीश्वरोऽनुत्पाद्यानिवर्त्यस्वभावतया न केनचित्किंचित्स
नीयत इति न साधनाभिधा तस्यासौ सहकारिणी युक्ता ॥ ८८ ॥ ८९ ॥


अपि च—यथा परिदृष्टसामर्थ्यसाधनादिकारणव्यतिरेकेणापरिदृष्टसामर्थ्यस्यापी
श्वरस्य कारणभावे कल्प्यमानेऽतिप्रसङ्गो भवतां प्राप्नोति, यतस्तमपीश्वरं परिकल्प्यापर
मपि ढेटषकादिकं (?) कल्पनीयमेव, विशेषाभावादिति दर्शयन्नाह—येष्वित्यादि ।


येषुये तु सत्सु भवद्दृष्टमसत्सु न कदाच ।

तस्यान्यहेतुताक्लृप्तावनवस्था कथं न ते ॥ ९० ॥

भवद्दृष्टं यदित्युपस्कारः । अन्यहेतुताक्लृप्ताविति । यथा परिदृष्टसामर्थ्ये37a भ्यो हेतु
भ्योऽन्यो हेतुस्तद्भावोऽन्यहेतुता, तस्याः क्लृप्तिः—कल्पनेति विग्रहः ॥ ९० ॥


यदुक्तं सर्वकर्तृत्वसिद्धौ चेत्यादि तत्राह—कर्तृत्वेत्यादि ।


कर्तृत्वप्रतिषेधाच्च सर्वज्ञत्वं निराकृतम् ।

बोद्धव्यं तद्बलेनैव सर्वज्ञत्वोपपादनात् ॥ ९१ ॥

सर्वकर्तृत्वबलेनासौ सर्वज्ञो भवद्भिरिष्यते, तेन तन्निराकरणात्सर्वज्ञत्वमपि तस्या
यत्नतो निराकृतमेव ॥ ९१ ॥