057

अभ्युपेत्य साधनानामदुष्टत्वं दूषणान्तरमाह—यथोक्तेत्यादि ।


यथोक्तदोषदुष्टानि माभूवन्साधनानि वा ।

तथाऽपि कर्तुर्नैकत्वं व्यभिचारोपदर्शनात् ॥ ९२ ॥

एककर्तुरसिद्धौ च सर्वज्ञत्वं किमाश्रयम् ।

यथोक्ता दोषा अनुमानविरोधपर्यन्ताः । अयमत्र समुदायार्थः । यद्यपि तनुगिरि
प्रभृतीनामेभ्यः साधनेभ्यो बुद्धिमान्कर्त्ता सिद्ध्यति । तथाऽप्यसौ य एवैकस्य हेतुः
स एवान्यस्यापीति न निश्चित एवेति प्रतिकार्यं भिन्नस्यापि कर्तुः संभाव्यमानत्वा
त्सौधादेश्चैकस्यापि बहुभिः करणेक्षणादतो नैकः कर्त्ता प्रतिपादयितुं शक्यते, याव
च्चैकः कर्ता न सिद्धस्तावत्कुतः सर्वज्ञत्वसिद्धिरिति । अत्र प्रशस्तमतिरेककर्तृत्वसि
द्धये प्रमाणयति । एकाधिष्ठाना ब्रह्मादयः पिशाचान्ताः परस्परातिशयवृत्तित्वात्,
इह येषां परस्परातिशयवृत्तित्वं तेषामेकायत्तता दृष्टा, यथेह लोके गृहग्रामनगरदे
शाधिपतीनामेकस्मिन्सार्वभौमे नरपतौ, तथा च भुजगरक्षोयक्षप्रभृतीनां परस्पराति
शयवृत्तित्वम्, तेन मन्यामहे तेषामप्येकस्मिन्नीश्वरे पारतन्त्रय
मिति । तत्र यद्येत
ईश्वराख्येनाधिष्ठिता इत्ययमर्थः साधयितुमिष्टस्तदाऽनैकान्तिकता । विपर्यये बाधक
प्रमाणाभावात् । प्रतिबन्धासिद्धेः । दृष्टान्तस्य च साध्यविकलता । अथाधिष्ठायक
मात्रेण साधिष्ठानेति साध्यते, तदा सिद्धसाध्यता, यत इष्यत एवास्माभिर्भगवता
संबुद्धेन सकललोकचूडामणिना सर्वमेव जगत्कारुण्यवशादधिष्ठितम् । यत्प्रभावादद्या
प्यभ्युदयनिःश्रेयससंपदमासादयन्ति साधवः । इदं चापरं तेनैव साधनमुक्तम् ।
सप्तभुवनान्येकबुद्धिनिर्मितानि, एकवस्त्वन्तर्गतत्वात् । एकावसथान्तर्गातापवरकवत् ।
यथैकावसथान्तर्गतानामपरवरकाणां सूत्रधारैकबुद्धिनिर्मितत्त्वं दृष्टं तथैकस्मिन्नेव भुव
नेऽन्तर्गतानि सप्तभुवनानि । तस्मात्तेषामप्येकबुद्धिनिर्मितत्वं निश्चीयते । यद्बुद्धिनि
र्मितानि चैतानि स भगवान्महेश्वरः सकलभुवनैकसूत्रधार
इति । तदत्र हेतुरसिद्धः,
नैकं भुवनमावसथादि वाऽस्ति, व्यवहारलाघवार्थं बहुष्वियं संज्ञा कृता । अत एव
दृष्टान्तोऽपि साधनविकलः । एकसौधान्तर्गतानामपवरकादीनामनेकसूत्रधारघटितत्व
दर्शनाच्चानैकान्तिको हेतुः । एवमन्येष्वपि साधनेषु यथायोगं दूषणं वाच्यम् ॥ ९२ ॥


यच्चोक्तं विमतेरास्पदं वस्त्वित्यादि । तत्राह—तत्सिद्धौ साधनमित्यादि ।


तत्सिद्धौ साधनं प्रोक्तं जैमनीयेषु राजते ॥ ९३ ॥

इतीश्वरपरीक्षा ।