यच्चोक्तं विमतेरास्पदं वस्त्वित्यादि । तत्राह—तत्सिद्धौ साधनमित्यादि ।


तत्सिद्धौ साधनं प्रोक्तं जैमनीयेषु राजते ॥ ९३ ॥

इतीश्वरपरीक्षा ।

058

यदि सामान्येनास्ति कश्चित्सर्वज्ञ इति साध्यते, तदा नास्मान्प्रतीदं भवतां साधनं
राजते । सिद्धसाध्यतादोषात् । किंतु ये सर्वज्ञापवादिनो जैमिनीयास्तेष्वेव शोभते ।
अत्रेश्वराख्यः सर्वज्ञः साध्यते, तदा प्रतिबन्धासिद्धेर्हेतोरनैकान्तिकता, दृष्टान्तस्य
साध्यविकलतेति । अतो नास्मान्प्रति साधनमेतद्राजत इति भावः । यच्चापि विचि
त्रोदयेत्यादि धर्मिविशेषणमुपात्तं तस्य न कश्चिदुपयोगोऽस्ति । केवलं परव्यामोहनाय
स्वप्रक्रियाघोषणमिदं क्रियते भवद्भिः । तथाहि—विना धर्म्यादिविशेषणेनैवंविधेन
यदि साधनमसिद्धतादिदोषरहितं तदा भवत्येवाभिमतसाध्यसिद्धिः । अथासिद्धतादि
दोषदुष्टं साधनम्, तदैवंविधविशेषणोपादानेऽपि न साध्यसिद्धिरस्तीति, सर्वथा व्यर्थ
मेव विशेषणम् । यत्पुनर्विपक्षाद्धेतुं व्यावर्त्तयति तदेव विशेषणं न्याय्यम् । किंचा
श्रयासिद्धो हेतुः । न हि यथोक्तविशेषणविशिष्टो धर्मी प्रसिद्धोऽस्ति प्रतिवादिनः,
तस्मान्न शास्त्रप्रसिद्धो धर्मी कर्त्तव्यः ॥ ९३ ॥