060

इहोच्यत इत्यादिना प्रतिविधत्ते ।


इहोच्यते तयोरेकक्रियाकाले समस्ति किम् ।

तदन्यकार्यनिष्पत्तिसामर्थ्यं यदि वा न तत् ॥ १०१ ॥

यद्यस्ति सर्गकालेऽपि द्वयमप्यपरं भवेत् ।

एवमन्यस्य सद्भावे द्वयमन्यत्प्रसज्यते ॥ १०२ ॥

तयोरिति । प्रकृतीश्वरयोः । एकक्रियाकाल इति । सर्गस्थितिप्रलयानामन्यत
मस्यैकस्य क्रियाकाले तदपरकार्यद्वयोत्पादनसामर्थ्यं किमस्त्युत नास्तीति विकल्पद्वयम् ।
तत्र यद्यस्ति तदा सर्गकालेष्वविकलकारणत्वादपरं कार्यद्वयं स्थितिप्रलयात्मकं भवेदु
त्पादवत् । एवं स्थितिकालेऽप्युत्पादविनाशौ प्राप्नुतः । प्रलयकाले च स्थित्युत्पादौ
स्याताम् । न चैवं युक्तम् । न हि परस्परपरिहारेणावस्थितानामेकत्र धर्मिण्येकदा
सद्भावो युक्तः ॥ १०१ ॥ १०२ ॥


स्यादेतत्तदेककार्योत्पादकाले तयोः प्रकृतीश्वरयोरपरकार्यद्वयोत्पादनाय रूपान्तरं
न सन्निहितमिति, तेन तदानीं तयोर्न प्रसङ्ग इत्याह—न हीत्यादि ।


न हि तत्पररूपेण पुनरन्यस्य कारकम् ।

स्वरूपं च तदेवास्य तत्क्रियाविरतिः कुतः ॥ १०३ ॥

दिति । प्रकृतीश्वराख्यं कारणम्—अन्यस्येति । पाश्चात्त्यस्य कार्यद्वयस्य । न
पररूपेण, किं तर्हि ? स्वरूपेणैव कारणमिति भावः ॥ १०३ ॥


स्यादेतद्यद्यपि तत्पररूपेण न कारणं तथाप्येककार्योत्पादकाले परिशिष्टकार्यद्वयो
त्पत्तये सामर्थ्यमस्य नास्ति । तेन कार्यद्वयस्य तदानीमनुत्पाद इत्याह—तत्सा
मर्थ्ये
त्यादि ।


तत्सामर्थ्यवियोगे तु नैव तज्जनकं भवेत् ।

अन्यदा शक्तिशून्यत्वाद्वियदम्भोरुहादिवत् ॥ १०४ ॥

अन्यदेति । अभिमतकार्यारम्भकाले ॥ १०४ ॥


स्यादेतद्यद्यपि प्रधाने सर्वा शक्तिः सन्निहिता, तथाऽपि योद्भूतवृत्तिर्भवति । सैव
कारणतां प्रतिपद्यते, नान्या, तेन यौगपद्यं कार्याणां न भविष्यतीत्याह—उत्कट
मि
त्यादि ।


उत्कटं शक्तिरूपं च यदि तन्मात्रकारणम् ।

सर्वदा तद्भवेद्धेतोर्नित्यरूपस्य सन्निधेः ॥ १०५ ॥