स्यादेतद्यद्यपि प्रधाने सर्वा शक्तिः सन्निहिता, तथाऽपि योद्भूतवृत्तिर्भवति । सैव
कारणतां प्रतिपद्यते, नान्या, तेन यौगपद्यं कार्याणां न भविष्यतीत्याह—उत्कट
मि
त्यादि ।


उत्कटं शक्तिरूपं च यदि तन्मात्रकारणम् ।

सर्वदा तद्भवेद्धेतोर्नित्यरूपस्य सन्निधेः ॥ १०५ ॥

061

इदं हि सर्वा(त्त्वा?)दीनामुत्कटं रूपं न तावन्नित्यं युक्तं वक्तुम्, कादाचित्कत्वात् ।
ततश्चास्य भावः कदाचित्प्रकृतीश्वरादेव कारणादन्यतो वा हेतोः स्वतन्त्रो वा स्यादिति
त्रयो विकल्पाः । तत्र प्रथमे पक्षे तदुत्कटं रूपं सर्वदा भवेत्, प्रकृतीश्वराख्यस्य
हेतोर्नित्यरूपत्वेन सदा सन्निहितत्वात् ॥ १०५ ॥