061

इदं हि सर्वा(त्त्वा?)दीनामुत्कटं रूपं न तावन्नित्यं युक्तं वक्तुम्, कादाचित्कत्वात् ।
ततश्चास्य भावः कदाचित्प्रकृतीश्वरादेव कारणादन्यतो वा हेतोः स्वतन्त्रो वा स्यादिति
त्रयो विकल्पाः । तत्र प्रथमे पक्षे तदुत्कटं रूपं सर्वदा भवेत्, प्रकृतीश्वराख्यस्य
हेतोर्नित्यरूपत्वेन सदा सन्निहितत्वात् ॥ १०५ ॥


द्वितीयेऽपि पक्षे प्राह—न चापरमित्यादि ।


न चापरंपरैरिष्टमतो नैवान्यतोऽपि तत् ।

नापि स्वतन्त्रमेवेदं कादाचित्कत्वसंभवात् ॥ १०६ ॥

न हि प्रकृतीश्वरव्यतिरिक्तमपरं कारणमिष्टम्, येनान्यतस्तदुद्भवेत् । नापि
तृतीयः पक्षो युक्त इत्याह—नापीत्यादि ॥ १०६ ॥


अथ स्वातन्त्र्ये सति कादाचित्कत्वस्य को विरोध इत्याह—स्वत इत्यादि ।


स्वतो भावे ह्यहेतुत्वं स्वक्रियाया विरोधतः ।

अपेक्षया हि भावानां कादाचित्कत्वसंभवः ॥ १०७ ॥

स्वतः—स्वभावात्, भावे—जन्मनि सति, अहेतुकत्वं नियमतो भवेत् । ननु
स्वभावादुत्पद्यमानः कथमहेतुको भवति यावता स्वभाव एव तस्य हेतुः प्रतीयत
इत्याह—स्वक्रियाया विरोधत इति स्वस्मिन्स्वरूपे क्रियाया हेतुभावस्य विरोधात् ।
स्यादेतद्भवत्वहेतुकत्वम्, तथाऽपि किमिति कादाचित्कत्वं न युज्यत इत्याह—अपे
क्षया ही
त्यादि । स्वभावान्तरायत्तवृत्तयो हि भावाः कादाचित्का युक्ताः । परभावा
भावप्रतिबद्धत्वात्तेषां सदसत्तयोः । ये पुनरपरायत्तवृत्तयस्तेषामपेक्षणीयस्य कस्यचि
दभावात्किमिति कदाचिद्भवेयुः ॥ १०७ ॥


अथ स्वक्रियाविरोध एव कथं सिद्ध इत्याह—तथा हीत्यादि ।


तथा हि न ह्यभावस्य स्वात्मनि व्यापृतिर्मता ।

निष्पन्नस्यात्मनोऽप्यस्यामवस्थायां प्रसिद्धितः ॥ १०८ ॥

आत्मानं हि जनयन्स्वभावो निष्पन्नो वा न वा । न तावन्निष्पन्नः । तस्यामवस्थाया
मात्मनोऽपि निष्पन्नरूपाव्यतिरेकित्वेन प्रसिद्धेर्निष्पन्नत्वात्, स्वभाववत् । ततश्च
जन्यासंभवात्कुत्रासौ भावो व्याप्रियेत ॥ १०८ ॥


नाप्यनिष्पन्न इति दर्शयति—अनिष्पन्नेत्यादि ।


अनिष्पन्नात्मतत्वस्तु नैव व्याप्रियते क्वचित् ।

सर्वशक्तिवियुक्तत्वादाकाशकमलादिवत् ॥ १०९ ॥

इत्युभयपरीक्षा ।