स्यादेतत्—यदि नाम ब्याह्यानां भावानां कारणानुपलब्धेरहेतुत्वं सिद्धम्, आध्या
त्मिकानां तु कथं सिद्धमित्याह—यथैवेत्यादि ।


यथैव कण्टकादीनां तैक्ष्ण्यदिकमहेतुकम् ।

कादाचित्कतया तद्वद्दुःखादीनामहेतुता ॥ ११२ ॥

063

यदि नाम प्रत्यक्षतो निर्हेतुकत्वं दुःखादीनां न सिद्धं तथाऽप्यनुमानतः सिद्ध
मेव । तथा हि—यत्कादाचित्कं तदहेतुकं निश्चितं यथा कण्टकतैक्ष्ण्यादि, कादा
चित्कं च दुःखादीनीति स्वभावहेतुः । न चापि यस्य भावाभावयोर्यस्य भावाभावौ
नियमेन भवतः, तत्तस्य कारणमिति युक्तम्, व्यभिचारात् । तथाहि—सति स्पर्शे
चक्षुर्विज्ञानं भवत्यसति च न भवति । अथ च नासौ चक्षुर्विज्ञानकारणम् ।
तस्मात्कार्यकारणभावलक्षणमेतद्व्यभिचारीत्यतः सिद्धं सर्वहेतुनिराशंसं भावानां
जन्मेति ॥ ११२ ॥