063

यदि नाम प्रत्यक्षतो निर्हेतुकत्वं दुःखादीनां न सिद्धं तथाऽप्यनुमानतः सिद्ध
मेव । तथा हि—यत्कादाचित्कं तदहेतुकं निश्चितं यथा कण्टकतैक्ष्ण्यादि, कादा
चित्कं च दुःखादीनीति स्वभावहेतुः । न चापि यस्य भावाभावयोर्यस्य भावाभावौ
नियमेन भवतः, तत्तस्य कारणमिति युक्तम्, व्यभिचारात् । तथाहि—सति स्पर्शे
चक्षुर्विज्ञानं भवत्यसति च न भवति । अथ च नासौ चक्षुर्विज्ञानकारणम् ।
तस्मात्कार्यकारणभावलक्षणमेतद्व्यभिचारीत्यतः सिद्धं सर्वहेतुनिराशंसं भावानां
जन्मेति ॥ ११२ ॥


सरोजकेसरादीनामित्यादिना प्रतिविधत्ते ।


सरोजकेसरादीनामन्वयव्यतिरेकवत् ।

अवस्थातिशयाक्रान्तं बीजपङ्कजलादिकम् ॥ ११३ ॥

प्रत्यक्षानुपलम्भाभ्यां निश्चितं कारणं यदा ।

किमित्यन्यस्तदा हेतुरमीषां परिपृच्छ्यते ॥ ११४ ॥

अनेन हेतोरसिद्धिं प्रत्यक्षविरोधं च प्रतिज्ञार्थस्य दर्शयति । यदुक्तं राजीवकेस
रादीनां कारणं नोपलभ्यत इति, तदसिद्धम्, प्रत्यक्षानुपलम्भाभ्यां बीजपङ्कजला
देरन्वयव्यतिरेकवतः कारणत्वेन निश्चितत्वात् । तथाहि—यस्मिन्सत्येव यस्य जन्म
भवति यस्य च विकाराद्यस्य विकारस्तत्तस्य कारणमुच्यते । तच्चैवंभूतं बीजादिकमु
च्छूनादिविशिष्टावस्थाप्राप्तं राजीवकेसरादीनामन्वयव्यतिरेकवत्—भावाभाववत् ।
प्रत्यक्षानुपलम्भाभ्यां निश्चितमित्यसिद्धो हेतुः । यच्चाप्युक्तं कार्यकारणलक्षणं व्यभिचा
रीति, तदसिद्धम् । स्पर्शस्यापि रूपहेतुतया चक्षुर्विज्ञानेऽपि निमित्तभावस्येष्टत्वात् ।
तथाहि—स्पर्श इति भूतान्युच्यन्ते । तानि चोपादायोपादाय रूपं वर्त्तते, ततश्चक्षु
र्विज्ञानं प्रति स्पर्शस्य निमित्तभावोऽस्त्येव । केवलं साक्षात्पारंपर्यकृतो विशेषः । न
चापि व्यतिरेकमात्रमस्माभिः कार्यकारणभावनिश्चयहेतुत्वेनाभ्युपगतम् । किं तर्हि ?
विशिष्टमेव । तथा हि—येषु सत्सु समर्थेषु तदन्येषु हेतुषु यस्यैकस्याभावाद्यन्न
भवति तत्तस्य कारणमिति वर्ण्यते । न तु यस्याभावे यन्न भवतीति व्यतिरेकमात्रम् ।
अन्यथा मातृविवाहोचितदेशजन्मनः पिण्डखर्जूरस्य मातृविवाहाभावे सत्यभावप्रस
ङ्गात् । न चैवंभूतस्य व्यतिरेकस्य स्पर्शेन व्यभिचारोऽस्ति । तथा हि—यदि रूपा
दिसन्निधानं प्रदर्श्य स्पर्शस्यैकस्याभावाच्चक्षुर्विज्ञानं न भवतीत्येवं प्रदर्श्येत तदा स्या