064 द्व्यभिचारो न चैतच्छक्यं प्रदर्शयितुम् । अतो नास्ति कार्यकारणभावलक्षणस्य व्य
भिचारः ॥ ११३ ॥ ११४ ॥


न केवलं बीजादिः कारणत्वेन निश्चितो भावानां देशकालावपि प्रतिनियतौ निश्चि
ताविति दर्शयति—नियतावित्यादि ।


नियतौ देशकालौ च भावानां भवतः कथम् ।

यदि तद्धेतुता नैषां स्युस्ते सर्वत्र सर्वदा ॥ ११५ ॥

क्वचित्कदाचित्कस्मिंश्चिद्भवन्तो नियताः पुनः ।

तत्सापेक्षा भवन्त्येते तदन्यपरिहारतः ॥ ११६ ॥

यदि हि राजीवादीनां तद्धेतुता—प्रतिनियतदेशकालहेतुता, न स्यात्, तदा येयमु
पलादिदेशपरिहारेण सलिलादावेव प्रतिनितदेशे वृत्तिः, या च शिशिरादिसमयपरि
हारेण निदाघादिसमये वृत्तिः, सा न प्राप्नोति । किं तु सर्वत्र देशे काले च ते
राजीवादयो भावा भवेयुस्तन्निरपेक्षत्वात् । तदन्यदेशकालपरिहारान्नियमेन प्रतिनिय
यतदेशादौ वर्त्तमानास्तत्सापेक्षा भवन्तीति निश्चीयते ॥ ११५ ॥ ११६ ॥


ननु निरभिप्रायाणां भावानां केयमपेक्षेत्याह—तदपेक्षा तथावृत्तिरिति ।


तदपेक्षा तथावृत्तिरपेक्षा कार्यतोच्यते ।

प्रत्यक्षा च तथा वृत्तिः सिद्धास्तेनेह हेतवः ॥ ११७ ॥

तदन्यदेशादिपरिहारेण नियते देशादौ या वृत्तिरियमेवापेक्षेत्युच्यते । नत्वभिप्राया
त्मिका । स्यादेतद्यदि नाम तदपेक्षा तेषाम्, तथाऽपि तत्कार्यता कथमवसितेत्याह—
अपेक्षा कार्यतोच्यत इति । न ह्यन्या तत्कार्यता, किं तर्हि ? येयं तथावृत्तिलक्ष
णाऽपेक्षा सैव तत्कार्यतोच्यते । सा च तथावृत्तिरेषां कथं सिद्धेति चेदाह—प्रत्यक्षे
त्यादि ॥ ११७ ॥


तत्स्वाभाविकवादोऽयं प्रत्यक्षेण प्रबाध्यते ।

प्रत्यक्षानुपलम्भाभ्यां हेतुरूपस्य निश्चयात् ॥ ११८ ॥

दिति । तस्मात् । तेषु वा राजीवादिषु स्वाभाविकवाद इति समासः । प्रत्यक्षेण
प्रबाध्यत
इति । अनुपलम्भस्याप्यन्योपलम्भनतया प्रत्यक्षात्मकत्वात् । यत्पुनः सुखा
दीनामहेतुकत्वसाधनाय कादाचित्कत्वादिति साधनमुक्तं तत्साध्यविपरीतसाधनाद्विरु
द्धम् । अहेतोरनपेक्षस्य कादाचित्कत्वानुपपत्तेः । दृष्टान्तस्य च साध्यविकलतेति
भावः ॥ ११८ ॥