न केवलं बीजादिः कारणत्वेन निश्चितो भावानां देशकालावपि प्रतिनियतौ निश्चि
ताविति दर्शयति—नियतावित्यादि ।


नियतौ देशकालौ च भावानां भवतः कथम् ।

यदि तद्धेतुता नैषां स्युस्ते सर्वत्र सर्वदा ॥ ११५ ॥

क्वचित्कदाचित्कस्मिंश्चिद्भवन्तो नियताः पुनः ।

तत्सापेक्षा भवन्त्येते तदन्यपरिहारतः ॥ ११६ ॥

यदि हि राजीवादीनां तद्धेतुता—प्रतिनियतदेशकालहेतुता, न स्यात्, तदा येयमु
पलादिदेशपरिहारेण सलिलादावेव प्रतिनितदेशे वृत्तिः, या च शिशिरादिसमयपरि
हारेण निदाघादिसमये वृत्तिः, सा न प्राप्नोति । किं तु सर्वत्र देशे काले च ते
राजीवादयो भावा भवेयुस्तन्निरपेक्षत्वात् । तदन्यदेशकालपरिहारान्नियमेन प्रतिनिय
यतदेशादौ वर्त्तमानास्तत्सापेक्षा भवन्तीति निश्चीयते ॥ ११५ ॥ ११६ ॥