066 संदिग्धत्वात् । न हि सर्वैः पुरुषैर्मयूरचन्द्रिकादीनामदृष्टं कारणं नोपलभ्यत इत्यत्रा
र्वाग्दर्शिनः किंचिदस्ति प्रमाणम् । याऽपि स्वेनादृष्टिः सा व्यभिभारिणी, कस्मात् ?
गिरिकुहरान्तर्गतस्य दूर्वाप्रवालशिलाशकलादेरनुपलब्धस्यापि सत्वतः—सत्वाविरो
धादित्यर्थः । तत्र निश्चितमेवासत्त्वं सन्देहात् ॥ १२२ ॥


अहेतुकत्वसिद्ध्यर्थं न चेद्धेतुः प्रयुज्यते ।

न चाप्रमाणिकी सिद्धिरतः पक्षो न सिद्ध्यति ॥ १२३ ॥

तत्सिद्धये च हेतुश्चेत्प्रयुज्येत तथाऽपि न ।

सिद्धेस्तद्धेतुजन्यत्वात्पक्षस्ते संप्रसिद्ध्यति ॥ १२४ ॥

अपि चैवं भवान्पर्यनुयोज्यः । किं निर्हेतुका भावा इत्यस्य स्वपक्षस्य सिद्धये
भवता हेतुः कश्चिदुपादीयते आहोस्विन्न । तत्र यदि नोपादीयते, तदा पक्षस्ते न
सिद्ध्यति । न हि प्रमाणमन्तरेणार्थस्य सिद्धिरस्ति । अथोपादीयते, तथाऽपि न हि
पक्षस्ते संप्रसिद्ध्यतीति वक्ष्यमाणेन संबन्धः । कस्मात् ? । सिद्धेस्तद्धेतुजन्यत्वात्—
प्रमेयार्थविषयायाः सिद्धेर्निश्चयस्य तेन हेतुना जन्यमानत्वात् । तथा चोक्तमाचार्य
सूरिपादैः
 । "न हेचुरस्तीति वदन्सहेतुकं ननु प्रतिज्ञां स्वयमेव सादयेत् । अथापि
हेतुः प्रणयालसो भवेत्प्रतिज्ञया केवलयाऽस्य किं भवेत्" इति ॥ १२३ ॥ १२४ ॥


स्यादेतत्—ज्ञापको हेतुर्मया प्रयुज्यते न कारकः । तत्कस्मात्पक्षो मे न सिध्य
तीत्याह—तथा हीत्यादि ।


तथाहि ज्ञापको हेतुर्वचो वा तत्प्रकाशकम् ।

सिद्धेर्निमित्ततां गच्छन्साध्यज्ञापकमुच्यते ॥ १२५ ॥

ज्ञापको हेतुरिति । त्रिरूपं लिङ्गं स्वार्थानुमानकाले । वचो वेति । परार्थानुमा
नकाले । तत्प्रकाशकमिति । तस्य हेतोः प्रकाशकम् । सिद्धेरिति । प्रमेयार्थनिश्च
यस्य । अन्यथा यदि सिद्धेरपि निमित्तभावं न यायात्तदा कथं नुकथं न ज्ञापकं भवेत् । एवं
हि सर्वं सर्वस्य ज्ञापकं प्रसज्यते ॥ १२५ ॥


यद्येवं कथमयमाचार्यैर्विभागः कारकाज्ज्ञापकस्य क्रियते ? । अत्र च ज्ञानवशादर्थ
निर्देशो नोत्पादकवद्भूतार्थवशादित्याह—


अतः कारक एवायं ज्ञापको हेतुरुच्यते ।

साध्यानुत्पादकत्वात्तु कारको न प्रकाश्यते ॥ १२६ ॥

साध्यानुत्पादकत्वादसौ ज्ञापक उच्यते न कारक इति, यस्तु साध्यस्याङ्कुरादेरुत्पा