यद्येवं कथमयमाचार्यैर्विभागः कारकाज्ज्ञापकस्य क्रियते ? । अत्र च ज्ञानवशादर्थ
निर्देशो नोत्पादकवद्भूतार्थवशादित्याह—


अतः कारक एवायं ज्ञापको हेतुरुच्यते ।

साध्यानुत्पादकत्वात्तु कारको न प्रकाश्यते ॥ १२६ ॥

साध्यानुत्पादकत्वादसौ ज्ञापक उच्यते न कारक इति, यस्तु साध्यस्याङ्कुरादेरुत्पा
067
दकः स कारक उच्यत इत्यदोषः । एतेन सर्वेण यदाचार्यसूर्युक्तदूषणस्योपरिचोद्यमा
पतति तत्प्रतिविहितं भवति । तथाहि—तत्रेदं चोद्यं भवति । न हेतुरस्तीति सहेतुकं
वदन्नपि किमिति प्रतिज्ञां सादयेत् । स हि ज्ञापकं हेतुं ब्रूते कारकं तु प्रतिक्षिप
तीति । तदत्रोत्तरम्—ज्ञापकोऽपि कारक एव ज्ञानहेतुकत्वादिति । एतेन स्ववचनवि
रोध उद्भाव्यते । न त्वहेतुत्वसाधकः कश्चिद्धेतुरस्ति व्याप्तेः प्रत्यक्षादिबाधित
त्वात् ॥ १२६ ॥