069 इति स्वभावहेतुः । अन्यथा भिन्नयोगक्षेमत्वात्तत्स्वभावत्वमेव प्रसिध्येदित्येतदत्र बा
धकं प्रमाणम् ॥ १२९ ॥ १३० ॥ १३१ ॥


एतदेव विस्तरेण प्रतिपादयन्नाह—येनेत्यादि ।


येन शब्दमयं सर्वं मुख्यवृत्त्या व्यवस्थितम् ।

शब्दरूपापरित्यागे परिणामाभिधानतःनिधानतः ॥ १३२ ॥

येन—यस्मात्, भवद्भिर्मुख्यत एव शब्दस्वभावं जगदिति वर्ण्यते । कस्मादि
त्याह—शब्दरूपापरित्याग इति ॥ १३२ ॥


यदि नाम मुख्यतः शब्दमयमवस्थितं ततः किमित्याह—अगौणे चेत्यादि ।


अगौणे चैवमेकत्वे नीलादीनां व्यवस्थिते ।

तत्संवेदनवेलायां कथं नास्त्यस्य वेदनम् ॥ १३३ ॥

एकत्वे नीलादीनामिति । शब्देन सहेति शेषः । तत्संवेदनवेलायामिति ।
तेषां नीलादीनां संवेदनावस्थायाम् । कथं नास्त्यस्य वेदनमिति । तस्यापि नीला
दिस्वभाववदुपलब्धिलक्षणप्राप्तत्वाद्युक्तमेव संवेदनमित्यभिप्रायः ॥ १३३ ॥


अस्यावित्तौ हि नीलादेरपि न स्यात्प्रवेदनम् ।

एेकात्म्याद्भिन्नधर्मत्वे भेदोऽत्यन्तं प्रसज्यते ॥ १३४ ॥

अथास्य वेदनं नेष्यते, तदा नीलादेरपि शब्दस्वरूपवदसंवेदनप्रसङ्गः । ऐका
त्म्यात्—शब्देन सह नीलादीनामेकस्वभावत्वादित्यर्थः । अन्यथा नीलादीनां शब्देन
सह भिन्नधर्मत्वेऽभ्युपगम्यमानेऽत्यन्तभेदोऽङ्गीकर्त्तव्यः ॥ १३४ ॥


कस्मादित्याह—


विरुद्धधर्मसङ्गो हि बहूनां भेदलक्षणम् ।

नान्यथा व्यक्तिभेदानां कल्पितोऽपि भवेदसौ ॥ १३५ ॥

न ह्यैकस्यैकदेकप्रतिपत्रपेक्षया ग्रहणमग्रहणं च युक्तम् । एकत्वहानिप्रसङ्गात् । अ
न्यथा हि यदि विरुद्धधर्माध्यासेऽप्येकत्वं स्यात्तदा घटादीनां यः कल्पित इष्टो व्य
क्तिभेदः सोऽपि न भवेत् । न केवलं ब्रह्मणः स्वरूपभेदो नास्तीत्यपिशब्दः । यत
स्तस्य स्वात्मनि व्यवस्थितस्य नास्ति भेदो विकारविषयत्वादस्येति सिद्धान्तः । तथा
हि—न घटाद्यात्मना तस्यानादिनिधनत्वमिष्यते । किं तर्हि ? । परमात्मना घटा
दयो हि दृश्यमानोदयव्ययाः परिच्छिन्नदेशाश्चोपलभ्यन्त इति । अयं चाश्रुतेः स्पष्टं