यद्यन्येन प्रयुक्तत्वान्न स्यादस्य स्वतन्न्नता ।

अथानुकम्पया कुर्यादेकान्तसुखितं जगत् ॥ १५६ ॥

आधिदारिद्यशोकादिविविधायासपीडितम् ।

जनं तु सृजतस्तस्य काऽनुकम्पा प्रतीयते ॥ १५७ ॥

यद्यन्येनेश्वरादिना प्रयुक्तोऽनिच्छन्नपि करोति तदाऽस्य यत्स्वातन्त्र्यमभ्युपगतं
तद्धीयेत । अथ कृपया परानुग्रहार्थं करोति तदा नारकादिदुःखितमत्वनिर्माणं न
कुर्यादेकान्तसुखितमेव कुर्यात् ॥ १५६ ॥ १५७ ॥