077

किं च सृष्टेः—सर्गात्प्रागनुकम्प्यसत्त्वाभावात् । यस्या अनुकम्पाया वशादयं
धाता—स्रष्टा कल्प्येत ॥ १५८ ॥


न चायं प्रलयं कुर्यात्सदाऽभ्युदययोगिनाम् ।

तददृष्टव्यपेक्षायां स्वातन्त्र्यमवहीयते ॥ १५९ ॥

यदि चायमनुकम्पया कुरुते तदा यदेव मनुष्याः सदाऽभ्युदययोगिनस्तेषां किमिति
प्रलयं करोति । ये दुःखितसन्ततय आपायिकाः सत्त्वास्तेषामेव कामं करोतु प्रलय
मिति भावः । अथापि स्यात्तेषामनुकम्प्यानां यददृष्टं धर्माधर्मलक्षणं तदपेक्ष्य सुख
दुःखसमन्वितं लोकं करोति । नैतदस्ति । एवं हि स्वातन्त्र्यमभ्युपगतं हीयते । न
चापि समर्थस्य काचिदपेक्षा । असामर्थ्ये वाऽपेक्ष्यादेव लोकस्योत्पत्तेस्तत्कारणत्वमस्य
हीयते ॥ १५९ ॥


पीडाहेतुमदृष्टं च किमर्थं स व्यपेक्षते ।

उपेक्षैव पुनस्तत्र दयायोगेऽस्य युज्यते ॥ १६० ॥

भवतु नाम तस्यादृष्टापेक्षा । तथाऽपि यददृष्टं धर्माधर्मात्मकं पीडाहेतुस्तदपेक्षा
कृपालोर्न युक्ता, किन्त्ववधीरणमेव तत्र तस्य कृपापरतन्त्रतया युक्तं कर्तुम् । न हि
कृपालवः परदुःखहेतुमेवान्विच्छन्ति, तेषां परदुःखवियोगेच्छयैव प्रवृत्तेः ॥ १६० ॥


क्रीडार्था तस्य वृत्तिश्चेत्क्रीडायां न प्रभुर्भवेत् ।

विचित्रक्रीडनोपायव्यपेक्षातः शिशुर्यथा ॥ १६१ ॥

अथ नानुकम्पया करोति । किं तर्हि ? । क्रीडार्थम् । एतदप्यसम्यक् । एवं क्री
डोत्पादे स्वातन्त्र्यमस्य न स्यात्, सर्गस्थितिप्रलयात्मकस्य विचित्रक्रीडनोपायस्यापे
क्षणात् ॥ १६१ ॥


क्रीडासाध्या च या प्रीतिस्तस्या यदपि साधनम् ।

तत्सर्वं युगपत्कुर्याद्यदि तत्कृतिशक्तिमान् ॥ १६२ ॥

क्रमेणापि न शक्तः स्यान्नो चेदादौ स शक्तिमान् ।

नाविभक्तस्य युज्येते शक्त्यशक्ती हि वस्तुनः ॥ १६३ ॥

किं च ये ते विचित्राः क्रीडनोपायाः, तत्कारणे यदि शक्तिरस्यास्ति तदा युगपदेव
कुर्यात् । अथादौ तस्य न शक्तिस्तदा क्रमेणापि न कुर्यात् । अशक्तावस्थाया अवि
शिष्टत्वात् । न ह्येकस्यैकत्र वस्तुनि शक्तत्वमशक्तत्वं च परस्परविरुद्धं धर्मद्वयं युक्तम् ।