079
अन्यथा यौगपद्येन सर्वं कार्यं समुद्भवेत् ।

तेषामपि न चेदेष नियमोऽभ्युपगम्यते ॥ १६७ ॥

तेषामिति । पावकादीनाम् । न केवलमीश्वरस्येत्यपिशब्दः । एष नियम इति ।
स्वहेतुबलसंभवकृतः ॥ १६६ ॥ १६७ ॥


स्यादेतदूर्णनाभः स्वभावतः प्रवृत्तः किमिति स्वकार्याणि जालादीनि युगपन्न करो
तीत्याह—प्रकृत्यैवेत्यादि ।


प्रकृत्यैवांशुहेतुत्वमूर्णनाभेऽपि नेष्यते ।

प्राणिभक्षणलाम्पट्याल्लालाजालं करोति यत् ॥ १६८ ॥

ऊर्णनाभोऽपि न स्वभावतः प्रवर्त्तते । किं तर्हि प्राणिभक्षणलाम्पट्यात्कादाचि
त्कात्प्रतिनियतहेतुसंभूतादित्यभिप्रायः । न ह्यसौ नित्यैकरूपः, तस्यापि स्वहेतुबलभा
वित्वेन कादाचित्की शक्तिः ॥ १६८ ॥


अथापि स्यात् । नानुकम्पया न क्रीडया किन्त्वबुद्धिपूर्वकमेव यथाकथंचित्प्रव
र्त्तत इत्याह—यथाकथंचिदित्यादि ।


यथाकथंचिद्वृत्तिश्चेद्बुद्धिमत्ताऽस्य कीदृशी ।

नासमीक्ष्य यतः कार्यं शनकोऽपि प्रवर्त्तते ॥ १६९ ॥

एवं हि कैवर्त्तादेः प्राकृतपुरुषादप्यत्यन्तानभिज्ञतया कथमसौ प्रेक्षावतामवधेयव
चनः स्यात् । बुद्धिमत्तेति । प्रेक्षावत्ता । शनकः—कैवर्त्तः ।। १६९ ।। एतेनैव पुरुषदूषणेन
ये वा शौरिप्रभृतयः परैर्जगतो धातारः कल्पितास्तेऽपि निरस्ता बोद्धव्या इति दर्श
यति—यति ॥ १६९ ॥


शौर्यात्मजादय इत्यादि ।


शौर्यात्मजादयो येऽपि धातारः परिकल्पिताः ।

एतेनैव प्रकारेण निरस्तास्तेऽपि वस्तुतः ॥ १७० ॥

इति पुरुषपरीक्षा ।

तत्र शौरिर्विष्णुः । आत्मजो ब्रह्मा । आदिशब्देन यो बुद्धिमान्कालः परैरिष्यते
तस्य ग्रहणम्........ । यथोक्तम् ॥ १७० ॥


इति पुरुषपरीक्षा ।

आत्मपरीक्षा ।

नैयायिकवैशेषिकपरिकल्पितात्मपरीक्षा ।

अन्ये पुनरिहात्मानमिच्छादीनां समाश्रयम् ।

स्वतोऽचिद्रूपमिच्छन्ति नित्यं सर्वगतं तथा ॥ १७१ ॥