076
समस्तवस्तुप्रलयेऽप्यलुप्तज्ञानशक्तिमान् ।

ऊर्णनाभ इवांशूनां स हेतुः किल जन्मिनाम् ॥ १५४ ॥

त एवमाहुः—पुरुष एवैकः सकललोकस्थितिसर्गप्रलयहेतुः प्रलयेप्यलुप्तज्ञानाति
शयशक्तिरिति । तथा चोक्तम्—ऊर्णनाभ इवांशूनां चन्द्रकान्त इवाम्भसाम् । प्ररो
हाणामिव प्लक्षः स हेतुः सर्वजन्मिनाम् ॥ इति । तथा पुरुष एवैतत्सर्वं यद्भूतं
यच्च भाव्यमि
ति । ईशसधर्माणम्—ईश्वरतुल्यधर्माणम्, द्वयोरपि विश्वसर्गस्थितिप्रलय
निमित्तत्वात् । एतावांस्तु विशेषः, ईश्वरव्यतिरिक्तमन्यदप्यात्मादिकं समवाय्यादिका
रणमीश्वरकारणकैरिष्यते । पुरुषवादिभिस्तु पुरुष एव कारणम्, विश्वसर्गस्थिति
प्रलयनिमित्तभावस्तु द्वयोरपि समानः । दुराख्यातसिद्धान्तानुगबुद्धय इति ।
दुराख्यातसिद्धान्तानुगा बुद्धिर्येषामिति विग्रहः । ऊर्णनाभो मर्कटकः ॥ १५३ ॥ १५४ ॥


अस्यापीत्यादिना दूषणमारभते—ईश्वरवदिति ।


अस्यापीश्वरवत्सर्वं वचनीयं निषेधनम् ।

किमर्थं च करोत्येष व्यापारमिममीदृशम् ॥ १५५ ॥

षष्ठ्यन्ताद्वतिः । अत्राप्येवं दूषणं वाच्यम्—पुरुषो जन्मिनां हेतुर्नोत्पत्तिविकल
त्वतः । गगनाम्भोजवत्सर्वमन्यथा युगपद्भवेत् । इत्यादि । यदि चेश्वरसिद्धये यथा
परैः साधनान्युक्तानि । तथैव पुरुषसिद्धये पुरुषवादिभिरुपादीयन्ते । तदा तद्वदेवा
सिद्धतादिदोषो वाच्यः । अन्यदपि दूषणप्रकारमाह—किमर्थं चेत्यादि । प्रेक्षापूर्व
कारिप्रवृत्तेः प्रयोजनवत्तया व्याप्तत्वादतः किमर्थमयं पुरुषो जगद्रचनाव्यापारमीदृशं
करोतीति वक्तव्यम् ॥ १५५ ॥


यद्यन्येन प्रयुक्तत्वान्न स्यादस्य स्वतन्न्नता ।

अथानुकम्पया कुर्यादेकान्तसुखितं जगत् ॥ १५६ ॥

आधिदारिद्यशोकादिविविधायासपीडितम् ।

जनं तु सृजतस्तस्य काऽनुकम्पा प्रतीयते ॥ १५७ ॥

यद्यन्येनेश्वरादिना प्रयुक्तोऽनिच्छन्नपि करोति तदाऽस्य यत्स्वातन्त्र्यमभ्युपगतं
तद्धीयेत । अथ कृपया परानुग्रहार्थं करोति तदा नारकादिदुःखितमत्वनिर्माणं न
कुर्यादेकान्तसुखितमेव कुर्यात् ॥ १५६ ॥ १५७ ॥


सृष्टेः प्रागनुकम्प्याप्रागनुकम्पानामसत्त्वे नोपपद्यते ।

अनुकम्पाऽपि यद्योगाद्धाताऽयं परिकल्प्यते ॥ १५८ ॥