129 मात्रानीतस्य केनचित्प्रतिषेद्धुमशक्यत्वात्, किंत्विदमिह वस्तुरूपं निरूप्यते । किमसौ
पुद्गलाख्यस्य वस्तुनः स्वभावः सर्वदाऽस्त्याहोस्विन्नास्तीति, यद्यस्ति तदा नित्य
एवासौ, न हि नित्यो नामान्य एव कश्चित्, अपि तु यः स्वभावः सदाऽव
स्थायी न विनश्यति स नित्य उच्यते । यथोक्तम्— नित्यं तमाहुर्विद्वांसो यः स्व
भावो न नश्यति
इति । अथ नास्तीति पक्षस्तदाऽप्यनित्य एवासावनवस्थायिस्वभाव
लक्षणत्वादनित्यस्य । अतः क्षणिकाक्षणिकव्यतिरेकेण गत्यन्तराभावादक्षणिकस्य च
क्रमयौगपद्याभ्यामर्थक्रियाविरोधात् क्षणिकत्वेनार्थक्रियासामर्थ्यलक्षणं सत्त्वं व्याप्त
मिति पुद्गले क्षणिकत्वनिवृत्तौ सत्त्वनिवृत्तिः सिद्धा ॥ ३४७ ॥


यद्येवं यदि पुद्गलो नास्त्येव कस्माद्भगवता स जीवस्तच्छरीरमन्यो जीवोऽन्य
च्छरीरमिति पृष्टेनोपृष्टे नोक्तमव्याकृतमेतदिति, यावता नास्त्येवेति कस्मान्नोक्तमित्याह—
आगमार्थविरोधे त्वित्यादि ।


आगमार्थविरोधे तु पराक्रान्तं महात्मभिः ।

नास्तिक्यप्रतिषेधाय चित्रा वाचो दयावतः ॥ ३४८ ॥

यदि हि पुद्गलो धर्मी सिद्धो भवेत्तदा तस्य तत्त्वान्यत्वादिधर्मोऽव्याकृतमर्हेत् ।
यावता स एव धर्मी न सिद्धस्तत्कथमसतस्तस्य धर्मो निर्दिश्येत । न ह्यसतः खर
विषाणादेस्तीक्ष्णतादि संभवति येनासौ व्याक्रियते । अतः प्रज्ञप्तिसत्त्वमेव ख्यापय
न्पुद्गलस्याव्याकृतमेतदिति भगवानुवाच । नास्तीत्येवं तु नोक्तम्, परेण धर्मिस्वरूप
स्यापृष्टत्वात् । अथवा प्रज्ञप्तिसतोऽप्यभावाभिनिवेशपरिहारार्थं शून्यतादेशनायाम
भव्यविनेयजनाशयापेक्षया नास्तीत्येव नोक्तम् । यथोक्तम्यच्चोक्तम्दंष्ट्रिदृष्टिदंष्ट्रावभेदं च भ्रंशं
चावेक्ष्य कर्मणाम् । देशयन्ति जिना धर्मं व्याघ्रीपोतापहारवत् ॥
(?) इति एव
माचार्यवसुबन्धप्रभृतिभिः कोशपरमार्थसप्ततिकादिष्वभिप्रायप्रकाशनात्पराक्रान्तम्,
अतस्तत एवावगन्तव्यम् । इह त्वतिग्रन्थविस्तरभिया न लिख्यत इति भावः । यद्ये
वम्, अस्ति सत्त्व उपपादक इत्येतत्कथं नीयत इत्याह—नास्तिक्येत्यादि ।
सत्त्वास्तित्वाभिधायिन्यो हि देशनाश्चित्रा दयावतः, न विरुध्यन्त इति वाक्यशेषः ।
यत्र हि चित्तसन्ताने सत्त्वप्रज्ञप्तिस्तस्यां सत्यामनुच्छेदमभिसन्धायास्ति सत्त्व इत्युक्तं
भगवता । अन्यथा ह्यनुपरतकार्यकारणक्षणपरम्पराणामपि संस्काराणामभावावग
मात्परमात् । परलोकिनोऽसत्त्वात्परलोकासिद्धिरिति नास्तिक्यदृष्टयो भवेयुर्विनेयाः ॥ ३४८ ॥