विनाशं प्रति सर्वेषां हेत्वन्तरानपेक्षतया स्थितत्वादित्यनेन हि त्रिलक्षणो हेतुः
सूचितस्तमेव स्पष्टयन्नाह—यद्भावं प्रतीत्यादि ।


यद्भावं प्रति यन्नैव हेत्वन्तरमपेक्षते ।

तत्तत्र नियतं ज्ञेयं स्वहेतुभ्यस्तथोदयात् ॥ ३५४ ॥

निर्निबन्धा हि सामग्री स्वकार्योत्पादने यथा ।

विनाशं प्रति सर्वेऽपि निरपेक्षाश्च जन्मिनः ॥ ३५५ ॥

प्रयोगः—ये यद्भावं प्रत्यनपेक्षास्ते तद्भावनियताः । यथा समनन्तरफला सामग्री
स्वकार्योत्पादने नियता । विनाशं प्रत्यनपेक्षाश्च सर्वे जन्मिनः कृतका भावा इति
स्वभावहेतुः । हेत्वन्तरमिति । जनकाद्व्यतिरिक्तम् । नियतमित्यत्र कारणमाह—
स्वहेतुभ्य इति । तथा—तेन नियतेन रूपेणोत्पन्नत्वादित्यर्थः । ये तु पुनर्यत्र न
नियतास्ते तत्रानपेक्षा अपि न भवन्त्येव, यथा घटादयोऽपक्वाः पाकादिष्वितीदमत्र
वैधर्म्येणोदाहरणम् ॥ ३५३ ॥ ३५४ ॥ ३५५ ॥