ननु चानैकान्तिको हेतुस्तथाहि—यदि नाम विनाशं प्रति हेत्वन्तरानपेक्षा भा
वास्तथाऽपि स्थित्वा देशान्तरे कालान्तरे च भावस्य विनाशसंभवादुदयानन्तरापव
र्गित्वमभीष्टमेषां साधयितुं न सिध्यतीत्याह—अनपेक्षोऽपीत्यादि ।


133
अनपेक्षोऽपि यद्येष देशकालान्तरे भवेत् ।

तदपेक्षतया नैष निरपेक्षः प्रसज्यते ॥ ३५६ ॥

एष इति । विनाशः । तदपेक्षतयेति । देशकालान्तरापेक्षतया । यो हि यत्रान
पेक्षः स यदि क्वचिद्भवेत्, कदाचिद्वा, तदा तद्देशकालापेक्षत्वादनपेक्ष एव न स्या
दिति कुतो व्यभिचारः । तथा हि—एकदेशकालापरिहारेणान्यत्र देशकालादौ वर्त्त
मानः कथमनपेक्षो नाम, यतस्तथावृत्तिरेव तस्यापेक्षा, न तु समीहा, तस्याभिप्रायशू
न्यत्वात् ॥ ३५६ ॥