164 नकालं च कार्यकारणभावानुपपत्तेः । यथोक्तम्— असतः प्रागसामर्थ्यात्पश्चादनु
पयोगतः । प्राग्भावः सर्वहेतूनां नातोऽर्थः स्वधिया सहे
ति ॥ ४६८ ॥


यदेत्यादिना पृथिवीसंबन्धित्वेनानुपलभ्यमानत्वे सतीति सविशेषणेऽपि हेताव
नैकान्तिकतेति दर्शयति ।


यदा सूर्यादिशब्दाश्च विवक्षामात्रभाविनः ।

दीपादौ विनिवेश्यन्ते तज्ज्ञानैर्व्यभिचारिता ॥ ४६९ ॥

द्वितीयेऽपि हेतुकदम्बके जात्यादेर्धर्मिणोऽसधर्मिणोः सत्त्वादेव क्षणभङ्गित्वस्यानिष्टत्वात्तत्र
तदभावसाधने सिद्धसाध्यतेति दर्शयति—जात्यादेरित्यादि ।


जात्यादेर्निःस्वभावत्वान्नैवेष्टा क्षणभङ्गिता ।

तदभावप्रसिद्ध्यर्थं निर्दिष्टं साधनं वृथा ॥ ४७० ॥

आदिशब्देन तदाश्रयाणां रूपघटादीनां तद्विषयाणां च प्रत्ययानां ग्रहणम् । एषा
मपि हि यथोक्तविशेषणविशिष्टानामसत्त्वमेव, तस्मात्तेषु तस्याः क्षणभङ्गिताया अभाव
सिद्ध्यर्थं यदुक्तं साधनं तद्वृथा, तत्र विवादाभावादिति भावः । अत्रापि सूक्ष्मेक्षिका न
कृता । यदि सा क्रियते तदा बहुतरमत्र दोषजालमवतरति । तथाहि—यदेतत्सदसद
न्यतरत्वं साधनमुक्तं तत्साध्यधर्मिणि दृष्टान्तधर्मिणि चासिद्धम्, विकल्पविषयत्वाद
न्यतरशब्दस्य, विकल्पश्चानेकपदार्थसंभवे सति भवति, नैकस्मिन् । न च साध्यध
र्मिणि द्वयोः सदसत्त्वयोः संभवोऽस्ति । तस्य वस्तुरूपत्वेन सत्त्वस्यैव संभवात् ।
नापि दृष्टान्तधर्मिणि द्वयसम्भवः । तस्यावस्तुत्वेनासत्त्वस्यैव संभवात् । हेतुश्च व्यर्थ
विशेषणः । तथाहि—शब्दाभिधेयत्वादित्येवमपि तावदत्र प्रयोगो न युक्तोऽभिधेय
त्ववचनादेव शब्दस्य सिद्धेः । यत्पुनः समानजातीयादिपदैर्विशेषणं तदतिपेलवमेव ।
एवमन्यदपि हेतुविशेषणमनर्थकमेवेति ग्रहीतव्यम् । सर्वे चामी हेतवोऽनैकान्तिकाः ।
साध्यविपर्ययेऽमीषां बाधकप्रमाणानुपदर्शनात् । एतच्च पश्चादभिधास्यत एव ॥ ४७० ॥


यच्चोक्तं विवादविषया ये चेत्यादि, तत्राह—समानेत्यादि ।


समानशब्दवाच्यत्वं दीपादिप्रत्ययेष्वपि ।

वर्त्तते व्यभिचार्येष हेतुस्तेन भवत्यतः ॥ ४७१ ॥

दीपज्ञानमिति दीपादिप्रत्ययेषु भिन्नविषयेष्वपि समानशब्दप्रवृत्तिदर्शनादतस्तेन
दीपादिप्रत्ययविषयेण शब्दवाच्यत्वेनैष समानशब्दवाच्यत्वादिति हेतुर्व्यभिचारी ।