165
अथवा काक्वा पाठः । अतस्तेषु वर्त्तमानत्वादेव हेतुस्ते—तव न व्यभिचारी भवति,
अपितु भवत्येवेत्यर्थः ॥ ४७१ ॥


सामानाधिकरण्यं चेदिति परमतमाशङ्कते ।


सामानाधिकरण्यं चेद्बाधित्तं तेषु कल्प्यते ।

विवक्षितेऽपि विस्पष्टा बाधैषा किं न वीक्ष्यते ॥ ४७२ ॥

अव्युत्थायितत्प्रत्ययसामानाधिकरण्ये सतीति हेतोर्विशेषणं दीपादिप्रत्ययैर्व्यभिचा
रपरिहारार्थमेव कृतम्, एषां हि दीपादिप्रत्ययानामेकविषयत्वस्य बाधितत्वात् ।
तथाहि—तत्क्षणमेव दीपो दीर्घशिखो नम्रशिखश्च दीप्रो दीप्रतरश्चोपलभ्यते ।
तत्कुतो व्यभिचारिता हेतोरिति परस्य भावः । तदेतद्विशेषणमप्यसिद्धमिति दर्शय
न्न्पाह—विवक्षितेऽपीत्यादि । विवक्षितसाध्यधर्मे तत्रापि बाधा किं न वी
क्ष्यते । तथाहि चैत्रादावपि बालकुमारतरुणादिभेदेन व्यावर्त्तमानाकार एव प्रत्ययो
जायते, पर्वतादौ शीतोष्णादिभेदेन, ततः स्पष्टतरमेवान्यथात्वमेषां प्रदीपादिवत्प्र
सिद्धम् । अन्यथा हि य एव शीतसंबद्धः स एव यदि पश्चादुष्णसंबद्धः स्यात्त
दाऽवस्थाद्वयेऽपि शीतोष्णयोरुपलम्भः स्यात् । तत्संबद्धस्वभावस्य भावे तयोरपि
भावस्य प्रसङ्गापत्तेः । निगडबद्धपुरुषाकर्षणे निगडाकर्षणवदित्युक्तप्रायमेतत् । अतः
सविशेषणोऽपि हेतुरसिद्धः ॥ ४७२ ॥


अनुमानबाधामप्याह—विवादपदमित्यादि ।


विवादपदमारूढा नैकार्थविषया धियः ।

क्रमेणोत्पद्यमानत्वाद्विद्युद्दीपादिबुद्धिवत् ॥ ४७३ ॥

क्रमभावविरोधो हि ज्ञानेष्वेकार्थभाविषु ।

अन्यैरकार्यभेदस्य तदपेक्षाविरोधतः ॥ ४७४ ॥

प्रयोगः—यत्क्रमभावि तत्सदा सन्निहिताविकलकारणं न भवति यथा विद्युद्दी
पादिबुद्धयः, क्रमभाविन्यश्च विवादास्पदीभूता बुद्धय इति व्यापकविरुद्धोपलब्धिः ।
नचानैकान्तिकत्वं हेतोः, एकवस्तुविषयत्वे सत्यविकलकारणस्य क्रमभावानुपपत्तेः ।
नापि कारणान्तरापेक्षा नित्यस्य तेनानुपकार्यत्वात् । नचानुपकारिण्यपेक्षा युक्ताऽति
प्रसङ्गात् । उपकारे वा नित्यत्वहानिप्रसङ्ग इति शतशश्चर्चितमेतत् ॥ ४७३ ॥
॥ ४७४ ॥