अनुमानबाधामप्याह—विवादपदमित्यादि ।


विवादपदमारूढा नैकार्थविषया धियः ।

क्रमेणोत्पद्यमानत्वाद्विद्युद्दीपादिबुद्धिवत् ॥ ४७३ ॥

क्रमभावविरोधो हि ज्ञानेष्वेकार्थभाविषु ।

अन्यैरकार्यभेदस्य तदपेक्षाविरोधतः ॥ ४७४ ॥

प्रयोगः—यत्क्रमभावि तत्सदा सन्निहिताविकलकारणं न भवति यथा विद्युद्दी
पादिबुद्धयः, क्रमभाविन्यश्च विवादास्पदीभूता बुद्धय इति व्यापकविरुद्धोपलब्धिः ।
नचानैकान्तिकत्वं हेतोः, एकवस्तुविषयत्वे सत्यविकलकारणस्य क्रमभावानुपपत्तेः ।
नापि कारणान्तरापेक्षा नित्यस्य तेनानुपकार्यत्वात् । नचानुपकारिण्यपेक्षा युक्ताऽति
प्रसङ्गात् । उपकारे वा नित्यत्वहानिप्रसङ्ग इति शतशश्चर्चितमेतत् ॥ ४७३ ॥
॥ ४७४ ॥


166

सर्वेष्वेव च प्रयोगेषु हेतूनामनैकान्तिकत्वं विपक्षे बाधकप्रमाणाभावादिति दर्श
यति—सन्दिग्धेत्यादि ।