132

कथमसौ प्रसाध्यत इत्याह—कृतकाकृतकत्वेनेत्यादि ।


कृतकाकृतकत्वेन द्वैराश्यं कैश्चिदिष्यते ।

क्षणिकाक्षणिकत्वेन भावानामपरैर्मतम् ॥ ३५२ ॥

इह हि नैयायिकादयः क्षणिकमेकमपि वस्तु नास्तीति मन्यमानाः कृतकाकृत
कत्वेन भावानां द्वैराश्यमवस्थापयन्ति । तत्र—केचित्कृतका यथा घटादयः, केचिद
कृतका यथा परमाण्वाकाशादयः । अपरैस्तु वात्सीपुत्रीयादिभिः क्षणिकाक्षणिकत्वे
नापि भावानां द्वैराश्यमिष्यते । तथाहि—बुद्धिशब्दार्चिःप्रभृतयस्तन्मतेन क्षणिकाः,
क्षितिव्योमादयस्त्वक्षणिका इति ॥ ३५२ ॥