तत्रैतच्चतुःसङ्ख्यं तावद्द्रव्यं निषेद्धुमाह—तत्रेत्यादि ।


तत्र नित्याणुरूपाणामसत्त्वमुपपादितम् ।

निःशेषवस्तुविषयक्षणभङ्गप्रसाधनात् ॥ ५५१ ॥

तत्र य एते नित्याणुरूपाः पृथिव्यादयो वर्णितास्तेषामशेषवस्तुव्यापिनः क्षणभ
ङ्गस्य प्रसांधनान्नित्यत्वरूपेणासत्त्वं प्रसाधितमेव । यत्सत्तत्सर्वं क्षणिकमक्षणिकस्य
यौगपद्याभ्यामर्थक्रियाविरोधात्तल्लक्षणं सत्त्वं हीयत इति व्याप्तेः प्रसाधितत्वात् ॥ ५५१ ॥