208

नैषामिति । सिध्यतीति पूर्वेण संबन्धः । प्रतिज्ञायाश्चानुमानविरोधित्वमिति द
र्शयति—अक्रमाद्याप्तितस्तथेति । यथोक्तं नभःसमवायित्वमेषां न सिद्ध्यतीति
संबन्धः । यदि हि नित्यैकनभोद्रव्यसमवेता अमी स्युः, तदा सकृदुत्पन्नानेकशब्द
वदतत्काला अपि शब्दा अभिमत एव काले स्युः, अविकलकारणत्वात्, एकाश्रय
त्वाच्च । नच नित्यस्य परापेक्षास्तीति प्रतिपादितमेतत् । नचाप्यनुपकारिणः समवा
यित्वं युक्तमतिप्रसङ्गात् । तदेवमक्रमत्वप्रसङ्गः । आदिशब्देन सर्वपुरुषैर्ग्रहणादिदोष
प्रसङ्गश्च । तथाह्याकाशात्मकमेव श्रोत्रं नभश्चैकमेव, ततश्च तत्प्राप्तानां सर्वेषामपि
शब्दानां श्रवणं भवेत्, नहि निर्विभागत्वेन तस्यायं प्रतिनियमो युक्तः, इदमात्मीयं
श्रोत्रमिदं परकीयमिति । स्यान्मतम्—तदीयादृष्टाभिसंस्कृता या कर्णशष्कुली तत्प
रिच्छिन्नस्यैवाकाशस्य श्रोत्रत्वमत एव न मुखनासिकादिविवरान्तरेण शब्दोपलम्भो
जायते, तस्या एव च कर्णशष्कुल्या उपघाताद्बाधिर्यादिर्व्यवस्थाप्यत इति । एतद
युक्तमेव, निरंशतयाऽऽकाशस्यैवंविधविभागस्यायोगात् । नच परिकल्पिता अवयव
विभागा भाविकवस्तुविभागसंसाध्यामर्थक्रियामारोपवशात्संपादयितुमीशते । नहि
जलमनल इत्युपचर्यमाणं ज्वलति दहति वा । अथ मतमाकाशस्य(स्यैक ?) देश इति
संयोगस्याऽव्याप्यवृत्तित्वमु(त्वादु ?)च्यत इति । एतदपि प्रत्युक्तमेव । किंच—घट
कर्णशष्कुल्यादयोऽप्यभिन्नैकव्योमसंसर्गितया समानदेशा भवेयुः । येनैव हि व्योम
स्वभावेनैकः संयुज्यते तेनैवापरेऽपीति, ततश्चाभिमतदेशभाविन एवापरेऽपि घटादयः
स्युः, तत्संयुक्तस्वभावाकाशसंयोगित्वात्, तद्देशावस्थितघटादिवत् । अतएव शब्दा
नामप्येकदेशत्वं भवेत्, ततश्च दूरासन्नतरदेशभेदावस्थाऽतिप्रतीता येयं पदार्थानां
केषांचित्सा विरोधिनी त्यादित्येवमादयो दोषा बहवः प्रसर्पन्ति ॥ ६२८ ॥


कालदिक्साधनयोरपि सामान्येन सिद्धसाध्यता विशेषेणान्वयासिद्धिर्हेतोः प्रति
ज्ञायाश्चानुमानबाधेति दर्शयति—विशिष्टेत्यादि ।


विशिष्टसमयोद्भूतमनस्कारनिबन्धनम् ।

परापरादिविज्ञानं न कालान्न दिशश्च तत् ॥ ६२९ ॥

निरंशैकस्वभावत्वात्पौर्वापर्याद्यसम्भवः ।

तयोः संबन्धिभेदाच्चेदेवं तौ निष्फलौ ननु ॥ ६३० ॥

विशिष्टसमयः—पौर्वापर्यादिनोत्पन्नेष्वेवार्थेषु पूर्वापरादिसङ्केतः, तदुद्भूतो मन