209 स्कारः—आभोगः स निबन्धनमस्येति तथोक्तम् । अतएव नेतरेतराश्रयदोषः, विशि
ष्टपदार्थसङ्केतनिबन्धनत्वादस्य ज्ञानस्येति । अतः कारणमात्रे साध्ये सिद्धसाध्यता,
विशेषेण साधनेऽनुमानबाधा, अनन्वयदोषश्च पूर्ववदिति सूचयन् हेतोश्चेष्टविपरीत
साधनाद्विरुद्धतेति दर्शयति—निरंशेत्यादि । तयोरिति । दिक्कालयोः । परापरादि
ज्ञानस्य निरंशैकदिक्कालाख्यपदार्थनिबन्धनत्वं साधयितुमिष्टं, तच्च न सिध्यति । त
थाहि—स्वाकारानुरूपं प्रत्ययमुत्पादयन् विषयो भवति । नच निरंशस्य पौर्वापर्या
दिविभागः संभवति, येन तत्कृतं पौर्वापर्यादिज्ञानं भवेत् । अत इष्टविपरीतसाधना
द्विरुद्धो हेतुः । संबन्धिभेदाच्चेदित्यनेन परस्योत्तरमाशङ्कते । अथ मतम्—दिक्का
लसंबन्धिनो भावा बाह्याध्यात्मिकाः प्रदीपशरीरादयः, तेषां पौर्वापर्यादि विद्यते,
ततस्तयोरपि दिक्कालयोः संबन्धिगतमेतत्पौर्वापर्यादि निर्दिश्यते, तस्मान्न विरुद्धता
हेतोरिति भावः । अत्रोत्तरमाह—एवं तौ निष्फलौ नन्विति । एवं हि कल्प्य
माने तौ दिक्कालौ निष्फलौ स्याताम् । तत्साध्याभिमतस्य कार्यस्य तैरेव संबन्धिभि
र्निष्पादितत्वात् । तथाहि—कालः पूर्वापरक्षणलवनिमेषकाष्ठाकलामुहूर्त्ताहोरात्राऽर्द्ध
मासादिप्रत्ययप्रसवहेतुः । दिक पूर्वोत्तरादिव्यवस्थाहेतुरिष्यते । अयं च भेदः स
कलस्तयोर्न स्वात्मनि विद्यते । भेदेषु पुनरस्तीति व्यर्थैव तत्परिकल्पना ॥ ६२९ ॥
॥ ६३० ॥


मनःसाधनहेतोरपि सामान्येन कारणमात्रे साध्ये सिद्धसाध्यतेति दर्शयति—
चक्षुरादीत्यादि ।


चक्षुराद्यतिरिक्तं तु मनोऽस्माभिरपीष्यते ।

षण्णामनन्तरोद्भूतप्रत्ययो यो हि तन्मनः ॥ ६३१ ॥

नित्ये तु मनसि प्राप्ताः प्रत्यया यौगपद्यतः ।

तेन हेतुरिह प्रोक्तो भवतीष्टविघातकृत् ॥ ६३२ ॥

विशेषेण तु नित्यैकमनस्साधनेऽनन्वयः प्रतिज्ञाया अनुमानबाधा विरुद्धता च
हेतोर्दर्शयति—नित्ये त्वित्यादि । इष्टविघातकृदिति । चक्षुरादिव्यतिरिक्तानित्यकार
णसापेक्षत्वसाधनात्, अन्यथा नित्यकारणत्वे सत्यविकलकारणत्वात्क्रमोत्पत्तिर्विरु
ध्येत चेतसाम् ॥ ६३१ ॥ ६३२ ॥


तामेव च विरुद्धतां हेतोरुपहासपूर्वकं दृढीकुर्वन्नाह—सौगतेत्यादि ।