अत्रापि बाधकं प्रमाणमाह—नित्यत्व इत्यादि ।


नित्यत्वे सकलाः स्थूला जायेरन्सकृदेव हि ।

संयोगादि न चापेक्ष्यं तेषामस्त्यविशेषतः ॥ ५५२ ॥

यदि पर्वतादीनां स्थूलानां कारभूताः परमाणवो नित्याः सन्तीत्यभ्युपगम्यते
तदा तत्कार्याणां स्थूलानामविकलकारणत्वात्सकृदेवोत्पत्तिप्रसङ्गः । प्रयोगः—ये स
मग्राप्रतिबद्धकारणास्ते सकृदेव भवन्ति । यथा बहवोऽङ्कुरास्तुल्योत्पादाः समग्राप्रति
बद्धकारणाश्च । नित्याणुकार्यत्वेनाभिमताः स्थूला भावा इति स्वभावहेतुः । समग्र
कारणस्याप्यनुत्पादे सर्वदैवानुत्पादप्रसङ्गो विशेषाभावादिति बाधकं प्रमाणम् । स्या
देतन्त्रिविधं कारणमिष्टं समवायिकारणमसमवायिकारणं निमित्तकारणं च । तत्र हि
यत्समवैति कार्यं तत्तस्य समवायिकारणं । असमवेतं तु यद्यस्य कारणभावं प्रतिप
द्यते तदसमवायिकारणं यथाऽवयविद्रव्यारम्भेऽवयवसंयोगः । परीशेषं तु कारणं
निमित्तकारणं तद्यथा धर्मादय इत्ययमेषां विभागः । तत्रापेक्षणीयस्य संयोगादेरस
न्निहितत्वात्समग्रकारणत्वमसिद्धमतोऽसिद्धो हेतुरित्याशङ्क्याह—संयोगादीति । यदि
हि संयोगादिना कश्चिद्विशेषोऽणूनामाधीयेत तदा ते तमपेक्षेरन् । यावता परैरनाधे
यविशेषा एवाणवो नित्यत्वात् । तत्कथं संयोगादि तेषामपेक्ष्यं स्यात् । न च सकृ
187 देव स्थूलानां तनुभवनादीनामुदयोऽस्ति क्रमेण तन्वादीनामुत्पत्तिदर्शनात् । तस्मा
द्विपर्ययः । प्रयोगः—ये क्रमवत्कार्यहेतवस्ते नित्या यथा क्रमवदङ्कुरादिकार्यनिर्व
र्त्तका बीजादयस्तथा च परमाणव इति स्वभावहेतुः ॥ ५५२ ॥