स्यादेतद्भवत एव सकलस्य नीलादेरुपलब्ध्यभिव्यक्ती इत्याह—न चेत्यादि ।


न च देशविभागेन स्थितो नीलादिरिष्यते ।

व्यज्यते यस्तदा तेन तस्य भेदोऽणुशस्ततः ॥ ६३७ ॥

तदेति । तस्मिन्काले । तेनेति । रन्ध्रालोकेन । तस्येति । नीलादेः । अणुशः
स्वभेदेऽङ्गीक्रियमाणे पृथिव्यादिपरमाणुद्रव्यवदणुपरिमाणयोगित्वेन गुणवत्त्वाद्द्रव्यरू
पतैव स्यात्, न गुणत्वम् । एवम्भूतानां चाणुशो भिन्नानां गुण इति संज्ञाकरणेन
212 नाम्नि विवादः । न चाणुत्वेऽप्याश्रितत्वाद्गुणत्वं युक्तम् । सदसतोराश्रयानुपपत्तेरति
प्रसङ्गाश्च । तथा ह्यवयविद्रव्यमवयवद्रव्याश्रितमिति तदपि गुणः स्यादिति भावः
॥ ६३७ ॥