तत्रैकादिव्यवहारहेतुरेकत्वादिलक्षणा सङ्ख्या, सा पुनरेकद्रव्या चानेकद्रव्या च,
तत्रैकसङ्ख्यैकद्रव्या । अनेकद्रव्या तु द्वित्वादिसङ्ख्या । तत्रैकद्रव्यायाः सलिलादि
परमाण्वादिगतरूपादीनामिव नित्यत्वनिष्पत्तयो बोद्धव्याः । अनेकद्रव्यायास्तु—ए
कत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरपेक्षाबुद्धिविनाशाद्विनाशः क्वचिदाश्रयवि
नाशादिति । इयं च द्विविधाऽपि सङ्ख्या किल प्रत्यक्षत एव सिद्धा । विशेषबुद्धेश्च
निमित्तान्तरापेक्षत्वादनुमानतोपीति परो मन्यते । तत्रास्याः प्रतिषेधमाह—अतद्रू
पे
त्यादि ।


अतद्रूपपरावृत्तगजादिव्यतिरेकिणी ।

न सङ्ख्या भासते ज्ञाने दृश्येष्टा नैव सास्ति तत् ॥ ६३८ ॥

येषु हि समुच्चयादिव्यावृत्तेषु गजादिषु संज्ञा निवेशिता न तद्व्यतिरेकेणोपलब्धि
र्लक्षणप्राप्ता सङ्ख्या ख्यातास्तीति सा शशविषाणवदसद्व्यवहारविषया । तथाह्यसौ
दृश्यत्वेनेष्टा । तथा च सूत्रम्— सङ्ख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वा
परत्वे कर्म च रूपिसमवायाच्चाक्षुषाणी
ति ॥ ६३८ ॥