नचापि विशेषबुद्धितः सङ्ख्यासिद्धिरिति दर्शयन्नाह—इत्छारचितेत्यादि ।


इच्छारचितसङ्केतमनस्कारान्वयं त्विदम् ।

घटेष्वेकादिविज्ञानं ज्ञानादाविव वर्तते ॥ ६३९ ॥

अद्रव्यत्वान्न सङ्ख्याऽस्ति तेषु काचिद्विभेदिनी ।

तज्ज्ञानं नैव युक्तं तु भाक्तमस्खलितत्वतः ॥ ६४० ॥

यथा ह्येकं ज्ञानं द्वे ज्ञाने इत्यादौ सङ्ख्यामंन्तरेणाप्येकादिबुद्धिर्भवत्येवं घटादिष्व
प्यसहायादिषु पदार्थेष्वेक इत्यादिः स्वेच्छया यः सङ्केतो विहितस्तत्र यो मनस्कार
आभोगस्तदन्वयमेकादिज्ञानं भविष्यतीत्यनैकान्तिकमेतत् । नहि तेषु ज्ञानादिषु स
ङ्ख्याऽस्ति, एषामद्रव्यत्वात् । सङ्ख्यायाश्च गुणत्वेन द्रव्याश्रितत्वात् । अथ मतं गौण
मिदं तेषु, ज्ञानमेकमिवैकं, साधर्म्यं चात्रासहायत्वादि (तत्राह ?)—तज्ज्ञानमिति ।
नैव ह्येतज्ज्ञानं भाक्तं युक्तमस्खलद्गतित्वादस्य प्रत्ययस्य । नहि यथा वाहीको गौरिति
213 स्खलति प्रत्ययः, गौरिव गौर्नतु गौरेव सास्नाद्यभावादिति, न तथायं स्खलति, ए
कमिवैकं ज्ञानादि नत्वेकमेवेति । किं तर्हि यादृशी घटादिष्वस्खलिता बुद्धिर्भवति
तादृशी ज्ञानादिष्वपि ॥ ६३९ ॥ ६४० ॥