क्षणं त्वेकमवस्थानं स्वहेतोरेव जातितः ।

पूर्वपूर्वप्रभावाच्च प्रबन्धेनानुवर्त्तनम् ॥ ६८८ ॥

स्वहेतोरेव निष्पद्यमाना एकक्षणस्थायिनः सिध्यन्ति । तथाह्यात्मप्रतिलम्भलक्षणै
वामीषां स्थितिरुच्यते, नतु प्रतिलब्धात्मसत्ताकानामुत्तरकालमात्मरूपसन्धारण
लक्षणा, स्वयं चलात्मन उत्तरकालमवस्थानाभावात् । अवस्थाने वा कदाचिदप्यनिवृ
त्तिप्रसङ्गः पूर्ववत् । पश्चादप्यविशिष्टत्वात्, अतत्स्वभावप्रसङ्गाञ्च । पूर्वपूर्वकारण
सामर्थ्यकृतश्चोत्तरोत्तरकार्यप्रसव इति प्रबन्धेऽपि न संस्कारस्य सामर्थ्यं सिध्यति
॥ ६८८ ॥