यथोक्तमेवार्थमुपसंहरन्नाह—अस्थिरे वेत्यादि ।


अस्थिरे वा स्थिरे वैवं गत्यादीनामसम्भवः ।

प्राक्तनापरदेशाभ्यां विभागप्राप्त्ययोगतः ॥ ७०६ ॥

एवमिति—अनन्तरोक्ताभ्यां प्रत्यक्षानुमानाभ्यां निराकृतत्वात् । विभागप्राप्त्य
योगत
इति । प्राक्तनेन विभागायोगात्, अपरदेशेन प्राप्त्ययोगादिति यथाक्रमं
सम्बन्धः ॥ ७०६ ॥