परेषां विशेषाणां लक्षणमाह—विशेषा एवेत्यादि ।


विशेषा एव केचित्तु व्यावृत्तेरेव हेतवः ।

नित्यद्रव्यस्थिता येऽन्त्या विशेषा इति वर्णिताः ॥ ७१२ ॥

केचिद्विशेषा एवेष्यन्ते, न सामान्यानि । व्यावृत्तिरेव—व्यावृत्तिप्रत्ययस्यैव हेतु
237 त्वादित्यर्थः । के पुनस्त इत्याह—नित्येत्यादि । तथाचोक्तम्—नित्यद्रव्यवृत्तयोऽ
न्त्या विशेषा इति । नित्यद्रव्यवृत्तय इति । परमाण्वाकाशकालदिगात्ममनःसु वृत्तेः ।
परमाणूनां जगद्विनाशारम्भकोटिभूतत्वात्, मुक्तात्मनां मुक्तमनसां च संसारपर्यन्त
रूपत्वादन्तत्वम्,अतस्तेषु भवा अन्त्या इत्युच्यन्ते । तेषु स्फुटतरमालक्ष्यमाणत्वात् ।
वृत्तिस्तु पुनरेषां सर्वस्मिन्नेव परमाण्वादौ नित्ये द्रव्ये । अत एव नित्यद्रव्यवृत्तयो
ऽन्त्या इत्युभयोरुपादानम् । तत्र परस्परमत्यन्तव्यावृत्तबुद्धिहेतुत्वात्स्वाश्रयमन्यतो
विशेषयन्तीति विशेषा उच्यन्ते ॥ ७१२ ॥