259 द्यावासनालक्षणस्य कारणदोषस्य विद्यमानत्वात् । तदेवमनया दिशा कुहेतवोऽमी
दूष्याः ॥ ७९६ ॥ ७९७ ॥


एवं तावद्विस्तरेण परोक्तसामान्यसाधनानां दूषणमभिधाय सामान्यस्य बाधकं
प्रमाणमभिधातुकाम आह—अपिचेत्यादि ।


अपिचानेकवृत्तित्वं सामान्यस्य यदुच्यते ।

तत्र केयं मता वृत्तिः स्थितिः किं व्यक्तिरेव वा ॥ ७९८ ॥

स्वरूपाप्रच्युतिस्तावत्स्थितिरस्य स्वभावतः ।

नाधारस्तत्कृतौ शक्तो येन स्थापकता भवेत् ॥ ७९९ ॥

गमनप्रतिबन्धोऽपि न तस्य बदरादिवत् ।

विद्यते निष्क्रियत्वेन नाधारोऽतः प्रकल्प्यते ॥ ८०० ॥

स्थितिस्तत्समवायश्चेन्न तदेवतथैव विचार्यते ।

सोऽभीष्टोऽयुतसिद्धानामाश्रयाश्रयितात्मकः ॥ ८०१ ॥

अवश्यं सामान्यस्य भेदेषु वृत्तिरेष्टव्या । अन्यथा कथं तेषु प्रतिनियमेनैकाकारा
बुद्धिस्तन्निबन्धना सेत्स्यति । तत्र च वृत्तिरस्य भवन्ती स्थितिलक्षणा वा भवेत्,
तदभिव्यक्तिलक्षणा वा, स्थितिरपि द्विधा—स्वभावाप्रच्युतिलक्षणा वा, यद्वाऽधो
गतिप्रतिबन्धलक्षणा । तत्र न तावदाद्या—नित्यत्वात्स्वत एव स्वभावाप्रच्युतेः सिद्ध
त्वात् । नापि द्वितीया—अमूर्त्तसर्वगतत्वाभ्यां निष्क्रियतयाऽधोगमनासम्भवादतो न
तत्प्रतिबन्धकत्वसाधारणं युक्तम् । भेदेषु यः सामान्यस्य समवायः सा स्थितिरित्ये
तदप्यनुत्तरमेव, तस्यैव समवायस्य विचार्यमाणत्वात् । तथाहि—अपृथक्सिद्धानामा
श्रयाश्रयिभावलक्षणः सम्बन्धः समवाय उच्यते, तच्चाश्रितत्वं सामान्यस्य तत्प्रतिब
द्धस्थितितया वा भवेत्, तदभिव्यङ्गितया वेतीदमेव निरूपयितुमारब्धम् । नहि पर
स्परासङ्कीर्णात्मनामकिञ्चित्करमर्थान्तरं समवायो युक्तोऽतिप्रसङ्गात् । एवं हि सर्वः
सर्वस्य समवायः स्यात्, तथाहि—परस्परव्यावृत्तशरीरान्भावान्यः संश्लेषयति स
समवायः कल्पितः । न चार्थान्तरसद्भावेऽपि स्वात्मनि व्यवस्थिताः परस्परस्वभाव
मन्वाविशन्ति, स्वरूपहानिप्रसङ्गात् । तस्य चार्थान्तरस्य समवाय इति नामकरणे न
विवाद इत्ययुक्तमर्थान्तरं स्थितिरिति ॥ ७९८ ॥ ७९९ ॥ ८०० ॥ ८०१ ॥