260

स्यादित्यादिना सामान्यं प्रत्याधारकल्पनाया अत्यन्तासम्बद्धतां दर्शयति ।


स्यादाधारो जलादीनां गमनप्रतिबन्धकः ।

अगतीनां किमाधारैः सामान्यानां प्रकल्पितैः ॥ ८०२ ॥

स्वज्ञानोत्पत्तियोग्यत्वे किमभिव्यक्तिकारणैः ।

स्वज्ञानोत्पत्त्ययोग्यत्वे किमभिव्यक्तिकारणैः ॥ ८०३ ॥

ह्यः समर्थः समर्थात्मा व्यञ्जकैः क्रियते यदि ।

भावोऽस्थिरो भवेदेवं दीपव्यङ्ग्यघटादिवत् ॥ ८०४ ॥

अगतीनामिति । गतिरहितानाम् । अमूर्त्तसर्वगतत्वाभ्यां गतेरभावात् । तदभि
व्यक्तिलक्षणापि स्थितिरयुक्ता, तथाहि—तद्विषयज्ञानोत्पादनमेव तस्याभिव्यक्तिर्न तु
स्वभावपरिपोषणलक्षणा नित्यस्य स्वभावान्यथाकरणासम्भवात्, ततश्च तस्य यदि स्वत
एव ज्ञानोत्पादनसामर्थ्यं तदा किमित्यभिव्यक्तिकारणमपेक्षते । अथासामर्थ्यं तदा
परैरनाधेयविषयत्वान्न तदपेक्षा युक्तिमती । परैराधेयविशेषत्वे चाङ्गीक्रियमाणे सत्य
नित्यत्वप्रसङ्गः, ततश्च व्यक्तिवदेवासाधारणत्वान्न सामान्यं स्यात् । भाव इति । भ
वतोऽस्मादभिधानप्रत्ययाविति कृत्वा कृत्स्न एव सामान्यपदार्थ उच्यते । प्रयोगः—
यस्य यस्मिन्वृत्तिनिबन्धनं न किंचिदस्ति न तत्तस्मिन्वर्तते, यथा विन्ध्ये हिमवान्,
नास्ति च सामान्यस्य भेदेषु वृत्तिनिबन्धनं किंचिदिति व्यापकानुपलब्धिः ॥ ८०२ ॥
॥ ८०३ ॥ ८०४ ॥


घटादीत्यादिना दूषणान्तरमप्याह ।


घटादिजातिभेदाश्च स्वाश्रयेष्वेव भाविनः ।

सर्वत्र वृत्तिभाजो वा भवेयुः परजातिवत् ॥ ८०५ ॥

घटत्वादिजातिभेदादि । घटत्वपार्थिवत्वादयः सर्वगतत्वेन वर्ण्यमानाः कदाचि
त्स्वाश्रयमात्रव्यापितया वर्ण्येरन्, यद्वा व्यक्तिशून्येऽपि देशे सर्वत्र भावादिति पक्ष
द्वयम् । परजातिवदिति । महाविषयतया सत्ता परेऽत्यभिधीयते । इयं च महावि
षयत्वमात्रसाम्येनैव दृष्टान्तीकृता । नतु व्यक्त्यन्तरालवर्त्तिदेशव्यापितया, तस्या अपि
तद्धर्माप्रतीतेः ॥ ८०५ ॥


तत्र प्रथमे पक्षे दोषमाह—तत्रेत्यादि ।


तत्र देशान्तरे वस्तुप्रादुर्भावे कथं नु ते ।

दृश्यन्ते वृत्तिभाजो वा तस्मिन्निति न गम्यते ॥ ८०६ ॥