तत्र प्रथमे पक्षे दोषमाह—तत्रेत्यादि ।


तत्र देशान्तरे वस्तुप्रादुर्भावे कथं नु ते ।

दृश्यन्ते वृत्तिभाजो वा तस्मिन्निति न गम्यते ॥ ८०६ ॥

261

घटादिव्यक्तिशून्ये देशे घटादिवस्तुप्रादुर्भावे सति ते जातिभेदा घटत्वादयः कथं
तत्र घटादौ दृश्यन्ते वर्त्तन्ते चेति न गम्यते—नावबुध्यत इति यावत् ॥ ८०६ ॥