261

घटादिव्यक्तिशून्ये देशे घटादिवस्तुप्रादुर्भावे सति ते जातिभेदा घटत्वादयः कथं
तत्र घटादौ दृश्यन्ते वर्त्तन्ते चेति न गम्यते—नावबुध्यत इति यावत् ॥ ८०६ ॥


कथमित्याह—नहीत्यादि ।


न हि तेन सहोत्पन्ना नित्यत्वान्नाप्यवस्थिताः ।

तत्र प्रागविभुत्वेन नचाऽऽयान्त्यतोऽक्रियाः ॥ ८०७ ॥

तथाहि—यदि घटादिना व्यक्तिभेदेन सहोत्पन्नास्ते भवेयुः प्राग्वा तत्रावस्थिताः
स्युरन्यतो वा देशान्तरादागच्छेयुस्तदा तत्र दृश्येरन्वर्त्तेरन्वा । यावता न तेषामुत्पादो
नित्यत्वात्, नापि प्रागवस्थानं असर्वसर्वव्यापित्वात्; नाप्यन्यदेशादागमनमक्रियत्वात्;
तत्कथं तेषु तेषां वृत्तिरुपलब्धिर्वा भवेत् । प्रयोगः—ये यत्र नोत्पन्ना नापि प्रागव
स्थायिनो नापि पश्चादन्यतो देशादागतिमन्तस्ते तत्र नोपलभ्यन्ते नापि वर्त्तन्ते, यथा
शशशिरसि तद्विषाणम्, तथाच सामान्यं तच्छून्यदेशोत्पादवति घटादिके वस्तुनीति
व्यापकानुपलब्धिः । न चायमनैकान्तिको हेतुः, तत्र वृत्त्युपलम्भयोः प्रकारान्तरा
भावात् ॥ ८०७ ॥


द्वितीयेऽपि पक्षे दोषमाह—स्वाश्रयेत्यादि ।


स्वाश्रयेन्द्रिययोगादेरेकस्मिंस्तद्ग्रहे सति ।

सर्वत्रैवोपलभ्येरंस्तत्स्वरुपाविभागतः ॥ ८०८ ॥

स्वाश्रयेन्द्रियसंयोगादेः—उपलम्भहेतोः । आदिशब्देनात्ममनःसन्निकर्षादिपरि
ग्रहः । एकस्मिन्व्यक्तिभेदे तेषां जातिभेदानां ग्रहणे सति सर्वत्रैव विजातीयेऽपि व्य
क्तिभेदेऽन्तराले चोपलभ्येरन्, तेषां यथास्वमेकरूपतया प्रत्येकं गृहीतरूपाव्यतिरे
कात् ॥ ८०८ ॥


एतदेव स्पष्टयन्नाह—ज्ञातादित्यादि ।


ज्ञातादव्यतिरिक्तं चेत्तस्यापि ग्रहणं भवेत् ।

तद्वदेव न वा तस्य ग्रहणं भेद एव वा ॥ ८०९ ॥

तथाहि—दृष्टव्यक्तिसमवेतसामान्यरूपाद्विज्ञातादव्यतिरिक्तं चेद्व्यक्त्यन्तरालवर्त्ति
सामान्यरूपं तदा तस्यापि ग्रहणं भवेत्, गृहीतादभिन्नत्वात्, गृहीतस्वरूपवत् । अथ
तस्य ग्रहणं न भवति, तथासत्यगृहीतरूपाव्यतिरेकात्तद्वद्दृष्टव्यक्तिसमवायिनोऽपि
ग्रहणं न स्यात् । अथोभयरूपताऽङ्गीक्रियते तदा स्वभावभेदप्रसङ्गः, परस्परविरु