कुतः पुनरमी सिद्धा इत्याह—यद्बलादित्यादि ।


यद्बलात्परमाण्वादौ जायन्ते योगिनां धियः ।

विलक्षणोऽयमेतस्मादिति प्रत्येकमाश्रिताः ॥ ७१३ ॥

यथा ह्यस्मदादीनां गवादिष्वाकृतिगुणक्रियावयवसंयोगनिमित्तोऽश्वादिबुद्धिव्या
वृत्तः प्रत्ययो दृष्टः, तद्यथा—गौः शुक्लः शीघ्रगतिः पीनककुदो महाघण्ट इति य
थाक्रमम्, तथाऽस्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मु
क्तात्ममनःसु चान्यनिमित्तासंभवाद्यद्बलात्प्रत्येकं विलक्षणोऽयमिति प्रत्ययव्यावृत्ति
र्देशकालविप्रकर्षदृष्टे च स एवायमिति प्रत्यभिज्ञानं यतो भवति, ते योगिनां विशे
षप्रत्ययोन्नीतसत्त्वा अन्त्या विशेषाः सिद्धाः । ते च यथास्वं प्रत्येकमाश्रयमाश्रिताः
योगिनां प्रत्यक्षत एव सिद्धाः ॥ ७१३ ॥