अथ जातयः कथं सिद्धा इत्याह—प्रत्यक्षत इत्यादि ।


प्रत्यक्षतः प्रसिद्धास्तु सत्त्वगोत्वादि जातयः ।

अक्षव्यापारसद्भावे सदादिप्रत्ययोदयात् ॥ ७१४ ॥

यद्गतान्वयव्यतिरेकानुविधायि यद्भवति तत्ततो भवतीति व्यवस्थाप्यते । द्रव्या
दिषु च सदादिप्रत्ययप्रसूतिरक्षगतान्वयव्यतिरेकावनुविदधती किमितीन्द्रियजन्यता
व्यपदेशं नाश्नुवीत, तदन्येन्द्रियज्ञानवत्, अन्यथाऽतिप्रसङ्गः स्यात् ॥ ७१४ ॥