अनुमानतोऽपि सत्त्वमासां प्रतिपादयन्नाह—अनुमानेत्यादि ।


अनुमानबलेनापि सत्त्वमासां प्रतीयते ।

विशेषप्रत्ययो येन निमित्तान्तरभाविकः ॥ ७१५ ॥

विशेषप्रत्यय इति । द्रव्यादिवस्तुविलक्षणाकारः प्रत्ययः । निमित्तान्तरभाविकः
238 —निमित्तान्तराद्भाव उत्पादः सोऽस्यास्तीति कृत्वा । प्रयोगः—यद्वस्त्वाकारविलक्षणो
यः स तद्व्यतिरिक्तनिमित्तान्तरभावी, यथा वस्त्रचर्मकम्बलेषु रक्तादिप्रत्ययः, तथा
चायं द्रव्यादिषु सदादिप्रत्यय इति स्वभावहेतुं मन्यते परः ॥ ७१५ ॥