238 —निमित्तान्तराद्भाव उत्पादः सोऽस्यास्तीति कृत्वा । प्रयोगः—यद्वस्त्वाकारविलक्षणो
यः स तद्व्यतिरिक्तनिमित्तान्तरभावी, यथा वस्त्रचर्मकम्बलेषु रक्तादिप्रत्ययः, तथा
चायं द्रव्यादिषु सदादिप्रत्यय इति स्वभावहेतुं मन्यते परः ॥ ७१५ ॥


एनमेव प्रमाणार्थं गवादीत्यादिना भाविविक्तादिरचितप्रमाणोपन्यासेन द
र्शयति ।


गवादिशब्दप्रज्ञानविशेषा गोगजादिषु ।

समयाकृतिपिण्डादिव्यतिरिक्तार्थहेतवः ॥ ७१६ ॥

गवादिविषयत्वे हि सति तच्छब्दबुद्धितः ।

अन्यत्वात्तद्यथैष्वेव सवत्साङ्कुशधीध्वनी ॥ ७१७ ॥

शशशृङ्गादिविज्ञानैर्व्यभिचाराद्विशेषणम् ।

तत्स्वरूपाभिधानं च वैधर्म्येण निदर्शनम् ॥ ७१८ ॥

गवादिष्वनुवृत्तं च विज्ञानं पिण्डतोऽन्यतः ।

विशेषकत्वान्नीलादिविज्ञानमिव जायते ॥ ७१९ ॥

गोतश्चागोतत्त्वार्थान्तरं गोत्वं भिन्नधीविषयत्वतः ।

रूपस्पर्शादिवत्तस्येत्युक्तेश्चैत्रश्चैव तुरङ्गवत् ॥ ७२० ॥

तत्र भाविविक्तः प्राह—गवाश्वमहिषवराहमातङ्गादिषु गवाद्यभिधानप्रज्ञानवि
शेषाः समयाकृतिपिण्डादिव्यतिरिक्तस्वरूपाऽनुरूपसंसर्गिनिमित्तान्तरनिबन्धता इत्य
वघोषणा । गवादिविषयत्वे सति पिण्डादिस्वरूपाभिधानप्रज्ञानव्यतिरिक्ताभिधानज्ञा
नत्वात्, तेष्वेव गवादिषु सवत्सा गौर्भाराक्रान्तो महिषः सशल्यो वराहः साङ्कुशो
मातङ्ग इत्याद्यभिधानप्रज्ञानविशेषवत् । वैधर्म्येण पिण्डादिस्वरूपाभिधानप्रज्ञानवि
शेषाः । यानि च तानि निमित्तान्तराणि तानि गोत्वादीनीति सिद्धम् । तत्राभिधानं
—शब्दः, प्रज्ञानं—प्रत्ययो ज्ञानमित्यर्थः । अभिधानप्रज्ञानान्येव विशेषा इति
विशेषणसमासः । समयः—सङ्केतः, आकृतिः—संस्थानं, पिण्डो—द्रव्यम्, आ
दिशब्देन रूपादिपरिग्रहः, एभ्यो व्यतिरिक्तं स्वरूपं येषां स्वाभिधानप्रत्ययं प्रत्यनुरू
पाणामुपाधित्वात्संसर्गिणां निमित्तान्तराणां तानि निबन्धनं येषामिति विग्रहः । अ
थवा समयादिव्यतिरिक्तानि च तानि सदादिप्रत्ययाभिधानं प्रतिस्वरूपानुरूपसंस
र्गीणि चेति विग्रहः कार्यः । शेषं पूर्ववत् । अवघोषणेति । प्रतिज्ञा । शशविषाणादि