236 द्रव्यादिष्वित्यादिना—सामान्यविशेषदूषणमारभते ।


द्रव्यादिषु निषिद्धेषु जातयोऽपि निराकृताः ।

पदार्थत्रयवृत्ता हि सर्वास्ताः परिकल्पिताः ॥ ७०८ ॥

जातय इति । सामान्यानि । ताश्च द्रव्यगुणकर्मात्मकपदार्थत्रयाश्रितत्वात्तन्निरा
करणादेवापास्ताः । नह्याश्रयमन्तरेणाश्रितानां क्वचिदवस्थितिरस्ति, अनाश्रितत्वप्रस
ङ्गात् । जातिग्रहणमुपलक्षणम्, विशेषा अप्यन्त्यद्रव्यवृत्तित्वादाश्रिता एवेष्टाः, अत
स्तेऽप्याश्रयनिराकरणादेवापास्ताः ॥ ७०८ ॥


तथाऽपि पुनर्विशेषेण दूषणं वक्तुकामोऽनिर्ज्ञातस्वरूपस्याशक्यदूषणत्वात्सामान्य
विशेषयोस्तावत्स्वरूपं दर्शयन्नाह—तत्रेत्यादि ।


तत्रेयं द्विविधा जातिः परैरभ्युपगम्यते ।

सामान्यमेव सत्ताख्यं समस्तेष्वनुवृत्तितः ॥ ७०९ ॥

द्रव्यत्वादि तु सामान्यं सद्विशेषोऽभिधीयते ।

स्वाश्रयेष्वनुवृत्तस्य चेतसो हेतुभावतः ॥ ७१० ॥

विजातिभ्यश्च सर्वेभ्यः स्वाश्रयस्य विशेषणात् ।

व्यावृत्तिबुद्धिहेतुत्वं तेषामेव ततः स्थितम् ॥ ७११ ॥

तत्र सामान्यं द्विविधं परमपरं च, परं सत्ताख्यं, तच्च समस्तेषु त्रिषु द्रव्यगु
णकर्मस्वनुवृत्तिप्रत्ययस्यैव कारणत्वात्सामान्यमेव न विशेषः । अपरं तु द्रव्यत्वकर्म
त्वादिलक्षणं, तच्च स्वाश्रयेषु द्रव्यादिष्वनुवृत्तिप्रत्ययहेतुत्वात्सामान्यमित्युच्यते, स्वा
श्रयस्य च विजातीयेभ्यो व्यावृत्तिप्रत्ययहेतुतया विशेषणात्सामान्यमपि सद्विशेष
इत्यभिधीयते । तथाहि—गुणादिष्वद्रव्यमगुण इत्यादिका येयं व्यावृत्तबुद्धिरुदयमा
सादयति, तां प्रति हेतुत्वमेषामेव गुणत्वद्रव्यत्वादीनां व्यवस्थितं नान्यस्य, न ह्यद्र
व्यत्वादिकमपरमस्ति । अपेक्षाभेदाच्चैकस्य सामान्यविशेषभावो न विरुध्यत एवेति
भावः ॥ ७०९ ॥ ७१० ॥ ७११ ॥


परेषां विशेषाणां लक्षणमाह—विशेषा एवेत्यादि ।


विशेषा एव केचित्तु व्यावृत्तेरेव हेतवः ।

नित्यद्रव्यस्थिता येऽन्त्या विशेषा इति वर्णिताः ॥ ७१२ ॥

केचिद्विशेषा एवेष्यन्ते, न सामान्यानि । व्यावृत्तिरेव—व्यावृत्तिप्रत्ययस्यैव हेतु