नानात्वेत्यादिना—तामेव धर्म्यसिद्धिं समर्थयते ।


नानात्वलक्षणे हि स्यादाधाराधेयभूतयोः ।

इदमत्रेति विज्ञानं कुण्डादौ श्रीफलादिवत् ॥ ८२८ ॥

नैव तन्तुपटादीनां नानात्वेनोपलक्षणम् ।

विद्यते येन तेषु स्युरिदमत्रेति बुद्धयः ॥ ८२९ ॥

ययोर्हि नानात्वमुपलक्षितं भवेत्तयोरेवाधाराधेयभावे सतीहबुद्धिरुद्भवन्ती लोके
दृष्टा, यथेह कुण्डे श्रीफलानीति, नच तन्तुपटोर्नानात्वमुपलक्षितं विद्यते च, तत्कथं
तत्रेहबुद्धिर्भवेत् ॥ ८२८ ॥ ८२९ ॥