267
वृक्षे शाखाः शिलाश्चाग इत्येषा लौकिकी मतिः ।

अगाख्यपरिशिष्टाङ्गनैरन्तर्योपलम्भनात् ॥ ८३१ ॥

तौ पुनस्तास्विति ज्ञानं लोकातिक्रान्तमुच्यते ।

घटे रूपं क्रियादीति तादात्म्यं त्ववगच्छति ॥ ८३२ ॥

रूपकुम्भादिशब्दा हि सर्वावस्थाभिधायकाः ।

तद्विशेषाभिधानाय तथा ते विनिवेशिताः ॥ ८३३ ॥

तानाश्रित्यैषु विज्ञानं तेनाकारेण वर्त्तते ।

समवायान्न भेदस्य सर्वेषामप्यनीक्षणात् ॥ ८३४ ॥

वृक्षे शाखाः पर्वते शिला इत्येवं लोके दृश्यते, नतु शाखायां वृक्षः शिलासु
पर्वत इति । सापि च वृक्षे शाखेत्यादिका मतिर्न समवायवशात्, किन्तु—अगा
ख्यानि यानि परिशिष्टानि—विवक्षितशाखाशिलाव्यतिरिक्तान्यधोव्यवस्थितानि स्क
न्धादीन्यङ्गानि, तेषां नैरन्तर्योपलम्भात् । अगशब्देनात्र न गच्छन्तीति कृत्वा तरवो
गिरयश्चाभिप्रेताः । ताविति । अगवृक्षौ । तास्विति । शिलाशाखासु । यत्तर्हीदमिह
घटे रूपरसगन्धस्पर्शाश्चलनं चेत्यादि लोके प्रसिद्धं ज्ञानं तस्य समवायं मुक्त्वा
कोऽन्यो विषय इत्याह—घट इत्यादि । तादात्म्यं—घटस्वभावत्वं, रूपादीनामवग
च्छति—ज्ञानं लोको वेति शेषः । घटे रूपं—घटस्वभावं रूपं, न घटाद्यात्मक
मित्यर्थः । बहुषु रूपादिषु साधारणशक्तिविशेषप्रतिपादनेच्छया तदन्यरूपादिव्यव
च्छेदेन घटादिश्रुतेर्निवेशः, रूपादिश्रुतिस्तु प्रत्येकमसाधारणचक्षुर्विज्ञानादिकार्यनिर्व
र्तनसामर्थ्यद्योतनाय निवेशितेत्यतो घटादिश्रुती रूपादिभेदानाक्षिपतीति सामानाधि
करण्याभावाद्व्यैयधिकरण्येनैव तादात्म्यं प्रतीपाद्यते । उभयोस्तु किमर्थं प्रयोग इत्याह
रूपकुम्भेत्यादि । रूपादिशब्दा हि सर्वावस्थस्य रूपादेर्वाचकाः । तथाहि—यथा
घटात्मनाऽवस्थितरूपादि रूपादीत्युच्यते तथा पटाद्यात्मनाऽवस्थितमपि, ततश्च केव
लेभ्यो रूपादिशब्देभ्यो न विशेषः प्रतीयते किमवस्था रूपादय इति, घटे रूपादय
इत्येवं तु प्रयोगे घटात्मकास्त इति पटादिव्यवच्छेदेन प्रतीयन्ते । तथा घटशब्दोऽपि
सर्वावस्थं घटं ब्रूते, शुक्लं पीतं चलं निश्चलमित्यादिकम्, अतः केवलान्न विशेषप्र
तीतिः, घटे शुक्लं रूपमित्यादिप्रयोगे तु तदन्यरूपादिव्यवच्छेदेन प्रतिपत्तिर्भवति,
ततश्च तस्यैवम्भूतस्य विशेषस्याभिधानाय यथा तथा घटे रूपमिति ते निवेशिताः ।